भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.216

3.216.1

एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत ।
ब्राह्मणः स पुन सूक्ष्मं पप्रच्छ सुसमाहितः ॥

3.216.2

वृत्त्वस्य रजसश्चैव तमसश्च यथातथम् ।
वृणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥
व्याध उवाच ।

3.216.3

दृन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।
एतान्गुणान्पृथक्त्वेन निबोध गदतो मम ॥

3.216.4

मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् ।
प्रकाशबहुलत्वाच्च सत्वं ज्याय इहोच्यते ॥

3.216.5

अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः ।
दृर्हृपीकस्तमोध्यस्तः सक्रोधस्तामसोऽलसः ॥

3.216.6

सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनमूयकः ।
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥

3.216.7

प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः ।
अक्रोधनो नरो धीमान्दान्तश्चैवस सात्विकः ॥

3.216.8

सात्विकस्त्वथ सम्बुद्धो लोकवृत्तैर्न लिप्यते ।
यदा बुध्यति बोध्धव्यं लोकवृत्तं जुगुप्सते ॥

3.216.9

वैराग्यस् च रूपं तु पूर्वमेव प्रवर्तते ।
मृदुर्भवत्यहन्कारः प्रसीदत्यार्जवं च यत् ॥

3.216.10

ततोऽस् सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम् ।
न चास्यासंयमो नाम क्वचिद्भवति कश्चन ॥

3.216.11

शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः ।
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥

3.216.12

आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते ।
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥
ब्राह्मण उवाच ।

3.216.13

पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् ।
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥
मार्कण्डेय उवाच ।

3.216.14

प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर ।
व्याधस्तु कथयामास ब्राह्मणाय महात्मने ॥

3.216.15

मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् ।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥

3.216.16

भूं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम् ।
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे ॥

3.216.17

स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।
मनोबुद्धिरहन्कारो भूतानां विषयश्च सः ॥

3.216.18

अव्यक्तं सस्वसञ्ज्ञं च जीवः कालः स चैव हि ।
प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम ॥

3.216.19

जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः ।
जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि ॥

3.216.20

तस्मिन्निरुद्दे विप्रेन्द्र मृत इत्यभिधीयते ।
त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते ॥

3.216.21

एष त्वग्निरपानन प्राणेन परिपाल्यते ।
पृष्ठतस्तु समानन स्वांस्वां गतिमुपाश्रितः ॥

3.216.22

वस्तुमूले गुदे चैव पावकं समुपाश्रितः ।
वहन्मूत्रं पुरीषंवाऽप्यपानः परिवर्तते ॥

3.216.23

प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते ।
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥

3.216.24

सन्धौसन्धौ सन्निविष्टः सर्वेष्वपि तथाऽनिलः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्ते ॥

3.216.25

धातुष्वग्निस्तु विततः स तु वायुसमीरितः ।
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥

3.216.26

प्राणानां सन्निपातात्तु सन्निपातः प्रजायते ।
सोष्मा सोग्निरितिज्ञेयो योऽन्नं पचतिदेहिनां ॥

3.216.27

अपानोदानयोर्मध्ये प्राणन्यानौ समाहितौ ।
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥

3.216.28

अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः ।
स्रोतांशि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥

3.216.29

अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥

3.216.30

पक्वाशयस्त्वधोनाभ्या ऊर्ध्वमामाशयः स्थितः ।
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥

3.216.31

प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा ।
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥

3.216.32

योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् ।
जितक्लमासनो धीरो मूर्धन्यात्मानमादत् ॥

3.216.33

एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ।
तौ तावदग्निसहितौ विद्धि वै प्राणमात्मनि ॥

3.216.34

एकादशविकारात्मा कलासम्भारसम्भृतः । मूर्तिमन्तं हि तं विद्धि नित्यं कर्माजेतात्मकम् ।
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः ॥

3.216.35

आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं ॥

3.216.36

देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकं ॥

3.216.37

जीवात्मकं विजानीहि रजः सत्वं तमस्तथा ।
जीवमात्मगुणं विद्धि तथाऽत्मानं परात्मकं ॥

3.216.38

अचेतनं जीवगुणं वदन्ति सचेष्टते चेष्टयते च सर्वम् ।
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त ॥

3.216.39

एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥

3.216.40

चित्तस्य हि प्रसादेन हनति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमनन्त्यमश्नुते ॥

3.216.41

लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् । सुखदुःखे हि सन्त्यज्य निर्द्वन्द्वो निष्परिग्रहः ।
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥

3.216.42

पूर्वरात्रेऽपरे चैव युञ्जानः सततं मनः ।
लध्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥

3.216.43

प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति ।
दृष्ट्वाऽत्मानं निरात्मानं स तदा विप्रमुच्यते ॥

3.216.44

सर्वोपायैस्तु लोभस् क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं यञ्ज्ञानं तपो वै सन्क्रमो मतः ॥

3.216.45

नित्यं क्रोधात्तपो रक्षेन्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥

3.216.46

आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतव्रतम् ॥

3.216.47

सत्यस् वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् ।
यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥

3.216.48

यस् सर्वे समारम्भा निराशीर्बन्धनाः सदा ।
त्यागे यस् हुतं सर्वं स त्यागी स च बुद्धिमान् ॥

3.216.49

यदा न गुरुतां चैनं च्यावयेदुपपादयन् ।
तं विद्याद्ब्राह्मणो योगमयोगं योगसञ्ज्ञितम् ॥

3.216.50

न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जीवितमासाद्यवैरं कुर्वीत केनचित् ॥

3.216.51

आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम् ।
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥

3.216.52

परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः ।
अशोकं स्थानमाश्रित् निश्चलं प्रेत्य चेह च ॥

3.216.53

तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥

3.216.54

गुणागुणमनासङ्गमेककार्यमनन्तरम् ।
एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम् ॥

3.216.55

परित्यजति यो दुःखं सुखं चाप्युभयं नरः ।
ब्रह्म प्राप्नोति सोत्यन्तमासङ्गं च न गच्छति ॥

3.216.56

यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम । एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc