भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.215

3.215.1

एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत ।
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥
ब्राह्मण उवाच ।

3.215.2

महाभूतानि यान्याहुः पञ्च धर्मविदांवर ।
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥
व्याध उवाच ।

3.215.3

भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।
गुणोत्तराणै सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥

3.215.4

भूमिः पञ्चगुणा ब्रह्मननुदकं च चतुर्गुणम् ।
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥

3.215.5

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एतेगुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥

3.215.6

शब्दः स्पर्शश्च रूपं च सरश्चापि द्विजोत्तम ।
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥

3.215.7

शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु ॥

3.215.8

एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु ।
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ॥

3.215.9

अन्योन्यं नातिवर्तन्ते सम्यक्व भवति द्विज ।
यदा तु विषमं भावमाचरन्ति चराचराः ॥

3.215.10

तदा देही देहमन्यं व्यतिरोहति कालतः ।
प्रातिलोम्याद्विनश्यन्ति जायन्ते चानुपूर्वशः ॥

3.215.11

तत्र तत्रहि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥

3.215.12

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् ।
तदव्यक्तमिति ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥

3.215.13

यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु ।
इन्द्रियाणि तथा देही धारयन्निह तप्यते ॥

3.215.14

लोके विततमात्मानं लोकं चात्मनि पश्यति ।
परापरज्ञः सक्तः सन्स तु भूतानि पश्यति ॥

3.215.15

पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ।
ब्रह्मभूतस् संयोगो नाशुभेनोपपद्यते ॥

3.215.16

ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् ।
लोकबुद्धिप्रकाशेन ज्ञेयमार्गेण गम्यते ॥

3.215.17

अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् ।
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ॥

3.215.18

तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि । तपसा हि समाप्नोति यद्यदेवाभिवाञ्छति ।
इन्द्रियाण्येव संयम्य तपो भवति नान्यथा ॥

3.215.19

इन्द्रियाण्येव तत्सर्वंयत्स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥

3.215.20

एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् ।
एतन्मूलं हि तपसः स्वर्गस्य नरकस्य च ॥

3.215.21

इन्द्रियाणां प्रसङ्गेन दोमार्च्छत्यसंशयम् ।
सन्नियम्य तु तान्येव ततः सिद्धिं समाप्नुयात् ॥

3.215.22

षण्णामात्प्रनि योज्यानामैश्वर्यं योऽधितिष्ठति ।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥

3.215.23

रथः शरीरं पुरुषस्य दृष्ट- मात्मा नियन्तेन्द्रियाण्याहुरश्वान् ।
तैरप्रमत्तः कुशली सदश्वै- र्दान्त सुखं याति रथीव धीरः ॥

3.215.24

षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथिनाम् ।
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥

3.215.25

इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥

3.215.26

इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते ।
तदस् हरते बुद्धिं नावं वायुरिवाम्भसि ॥

3.215.27

येषु विप्रतिपद्यन्ते षट्स्वमोहात्फलागमम् । तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc