भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.191

3.191.1

ततः स पुनरेवाथ मार्कण्डेयं तपस्विनम् ।
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥

3.191.2

नैके युगसहस्रान्तास्त्वया दृष्टा महामुने ।
न चापीह समः कश्चिदायुष्मान्दृश्यते तव ॥

3.191.3

वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम् ।
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम ॥

3.191.4

अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते ।
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे ॥

3.191.5

प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे ।
त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि ॥

3.191.6

चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना ।
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥

3.191.7

त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः ।
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥

3.191.8

स्वप्रमाणमथो विप्र त्वया कृतमनेकशः ।
घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया ॥

3.191.9

नारायणाङ्कप्रख्यस्त्वं साम्परायेऽतिपठ्यसे ॥

3.191.10

भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत् । कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः ।
रत्नालन्कारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा ॥

3.191.11

तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी ।
न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥

3.191.12

यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः ।
नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन ॥

3.191.13

तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥

3.191.14

शयानममितात्मानं पद्मे पद्मनिकेतनम् ।
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥

3.191.15

एतत्प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम ।
तस्मादिच्छाम्यहं श्रोतुं सर्वांहेत्वात्मिकां कथां ॥

3.191.16

अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम ।
न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा ॥
मार्कण्डेय उवाच ।

3.191.17

हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे । पुरुषाय पुराणाय शाश्वतायाव्ययाय च ।
अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने ॥

3.191.18

य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः ।
एष कर्ता विकर्ता च भूतात्मा भूतकृत्प्रभुः ॥

3.191.19

अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते ।
अनादिनिधनं भूतं विश्वमव्ययमक्षयम् ॥

3.191.20

एष कर्ता न क्रियते कारणं चापि पौरुषे ।
को ह्येनं परुषं वेत्ति देवा अपि न तं पौरषे ॥

3.191.21

सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम ।
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥

3.191.22

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥

3.191.23

वीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परं ॥

3.191.24

तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः ।
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥

3.191.25

सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् ।
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ॥

3.191.26

सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय ।
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ॥

3.191.27

एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ।
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ॥

3.191.28

विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते ।
लोकानां मनुजवन्याघ्र प्रलयं तं विदुर्बुधाः ॥

3.191.29

अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ ।
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥

3.191.30

यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा ।
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥

3.191.31

ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः ।
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये ॥

3.191.32

निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः ।
ब्राह्मणा सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥

3.191.33

अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः ।
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥

3.191.34

बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप ।
मृषानुशासिनः पापा मृषावादपरायणाः ॥

3.191.35

आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः ।
काम्भोजा बाह्लिकाः शूरास्तथाऽभीरा नरोत्तमा ॥

3.191.36

न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति ।
क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप ॥

3.191.37

अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः ।
अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः ॥

3.191.38

बहुशून्या जनपदा मृगव्यालावृता दिशः ।
युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः ॥

3.191.39

भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ।
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ॥

3.191.40

न तथा घ्राणयुक्ताश्च सर्वगन्धा विशाम्पते ।
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥

3.191.41

बहुप्रजा ह्रस्वदेहा शीलाचारविवर्जिताः ।
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥

3.191.42

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥

3.191.43

अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप ।
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥

3.191.44

ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम् ।
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥

3.191.45

लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः ।
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥

3.191.46

कराभारभयाद्भीता गृहस्थाः परिमोषकाः ।
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपभुञ्जते ॥

3.191.47

मित्या च नखरोमाणि धारयन्ति तदा द्विजाः ।
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥

3.191.48

आश्रमेषु वृथाचार पारपा गुरुतल्पगाः ।
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥

3.191.49

पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः । बहुपाषण्डसन्कीर्णाः परान्नगुणवादिनः ।
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥

3.191.50

यथर्तुवर्षी भगवान्न तथा पाकशासनः ।
न चापि सर्वभीजानि सम्यग्रोहन्ति भारत ॥

3.191.51

फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते । हिंसाभिरामश्च जनस्तथा सम्पद्यतेऽशुचिः ।
अधर्मफलमत्यर्थं तदा भवति चानघ ॥

3.191.52

तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः ।
अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन ॥

3.191.53

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥

3.191.54

धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः ।
धर्मस्य बलहानिः स्यादधर्मश्च बलायते ॥

3.191.55

अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा ।
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥

3.191.56

नगराणआं विहारेषु विधर्माणो युगक्षये ।
अधर्मिष्ठैरुपायैश् प्रजा व्यवहरन्त्युत ॥

3.191.57

सञ्चयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः ।
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ॥

3.191.58

हर्तुं व्यवसिता राजन्पापाचारसमनविताः ।
नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः ॥

3.191.59

पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा ।
नगराणां विहारेषु चैत्येष्वपि च शेरते ॥

3.191.60

सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप ।
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥

3.191.61

भवन्ति षोडशे वर्षे नराः पलितिनस्तथा ।
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥

3.191.62

क्षीणायुषो महाराज तरुणा वृद्धशीलिनः ।
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥

3.191.63

विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन् ।
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥

3.191.64

वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप ।
भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत ॥

3.191.65

तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये ।
अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥

3.191.66

ततस्तान्यल्पसाराणि सत्वानि क्षुधितानि वै ।
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥

3.191.67

ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप ।
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥

3.191.68

यच्च रकाष्ठं तृणं चापि शुष्कं चार्द्रं च भारत ।
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥

3.191.69

ततः संवर्तको वह्निर्वायुना सह भारत ।
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥

3.191.70

ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम् ।
रदेवदानवयक्षाणां भयं जनयते महत् ॥

3.191.71

निरदहन्नागलोकं च यच्च किञ्चित्क्षिताविह ।
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥

3.191.72

ततो योजनविंशानां सहस्राणि शतानि च ।
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥

3.191.73

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥

3.191.74

ततो गजकुलप्रख्यास्तजिन्मालाविभूषिताः ।
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥

3.191.75

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
केचित्किञ्जल्कसन्काशाः केचित्पीताः पयोधराः ॥

3.191.76

केचिद्धारिद्रसन्काशाः कारण्डवनिभास्तथा ।
केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः ॥

3.191.77

केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।
केचिदञ्जनसन्काशाः केचिन्मकरसन्निभाः ॥

3.191.78

विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ।
घोररूपा महाराज घोरस्वननिनादिताः ॥

3.191.79

ततो जलघराः सर्वं व्याप्नुवनति नभस्तलम् ।
गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः ॥

3.191.80

तैरियं पृथिवी सर्वा सपर्वतवनाकरा ।
आपूर्यते महाराज सलिलौघपरिप्लुता ॥

3.191.81

ततस्ते जलदा घोरा राविणः पुरुषर्षभ ।
पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥

3.191.82

वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम् ।
सुघोरमशिवं रौद्रं नाशयनति च पावकम् ॥

3.191.83

ततो द्वादशवर्षाणि पयोदास्त उपप्लवे ।
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥

3.191.84

ततः समुद्रः स्वां वेलामतिक्रामति भारत ।
पर्वताश्च विदीर्यन्ते मही चापि विदीर्यते ॥

3.191.85

सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् ।
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥

3.191.86

कततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप ।
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत ॥

3.191.87

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणए यक्षराक्षसवर्जिते ॥

3.191.88

निर्मनुष्ये महीपाल निःश्वापदमहीरुहे ।
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः ॥

3.191.89

एकार्णवे जले घोरे विचरन्पार्थिवोत्तम ।
अपश्यन्सर्वभूतानि वैक्लब्यमगमं ततः ॥

3.191.90

ततः सुदीर्घं गत्वाऽहं प्लवमानो धराधिप ।
श्रान्तः क्वचिन्न शरणं लब्धवानस्म्यतन्द्रितः ॥

3.191.91

ततः कदाचित्पश्यामि तस्मिन्सलिलसन्निघौ ।
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥

3.191.92

शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप ।
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥

3.191.93

उपविष्टं महाराज पद्मेन्दुसदृशाननम् ।
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥

3.191.94

ततो मे पृतिवीपाल विस्मयः सुमहाभूत् ।
कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥

3.191.95

तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये ।
भूतं भव्यं भविष्यं च जानन्नपि नराधिप ॥

3.191.96

अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः ।
साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे ॥

3.191.97

ततो मामब्रवीद्बालः स पद्मनिभलोचनः ।
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥

3.191.98

जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम् ।
मार्कण्डेय महासत्वं यावदिच्छसि भार्गव ॥

3.191.99

अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम ।
आस्खेह विहितो वासः प्रसादस्ते कृतो मया ॥

3.191.100

ततो बालेन तेनैव मुक्तस्यासीत्तदा मम ।
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥

3.191.101

ततो बालेन तेनास्यं सहसा विवृतं कृतम् ।
तस्याहमवशो वक्रे दैवयोगात्प्रवेशितः ॥

3.191.102

ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप ।
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥

3.191.103

गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् ।
चर्मण्वतींवेत्रवतीं चन्द्रभागां सरस्वतीम् ॥

3.191.104

सिन्धुं चैव विपाशां च नदीं गोदावरीमपि ।
वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥

3.191.105

नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम् ।
सुवेणां कृष्णवेणां च इरामां च महानदीम् ॥

3.191.106

वितस्तां च महाराज कावेरीं च महानदीम् । तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम् ।
शोणं च पुरुषव्याघ्र विशल्यां किम्पुनामपि ॥

3.191.107

एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम ।
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥

3.191.108

ततः समुद्रं पश्मामि यादोगणनिषेवितम् ।
रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम् ॥

3.191.109

ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् ।
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम् ॥

3.191.110

पश्यामि च महीं राजन्काननैरुपशोभिताम् ।
सपर्वतवनद्वीपां निम्नगाशतसन्कुलाम् ॥

3.191.111

यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः ।
क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः ॥

3.191.112

वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप ।
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥

3.191.113

ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः ।
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥

3.191.114

निषधं चापि पश्यामि श्वेतं च रजतान्वितम् ।
पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥

3.191.115

मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् ।
पश्यामि च महाराज मेरु कनकपर्वतम् ॥

3.191.116

महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् ।
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥

3.191.117

एते चान्ये च बहवो यावन्तः पृथिवीधराः ।
तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः ॥

3.191.118

सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप । पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ।
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥

3.191.119

कुक्षौ तस् नरव्याघ्र प्रविष्टः सञ्चरन्दिशः ।
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम् ॥

3.191.120

साध्यान्रुद्रांस्तथाऽदित्यान्गुह्यकान्पितरस्तथा ।
सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि ॥

3.191.121

गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते ।
दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप ॥

3.191.122

सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ।
यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम् ॥

3.191.123

सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः ।
त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो ॥

3.191.124

अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम् । 3-191-ब्124 न च पश्यामि यस्याहं देहस्यान्तं कदाचन ॥

3.191.125

सततं धावमानश्च चिन्तयानो विशाम्पते । भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून् ।
आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥

3.191.126

ततस्तमेव शरणं गतोस्मि विधिवत्तदा ।
वरेण्यं वरदं देवं मनसा कर्मणैव च ॥

3.191.127

ततोऽहं सहसा राजन्वायुवेगेन निःसृतः ।
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥

3.191.128

ततस्तस्यैव शाखायां न्यग्रोधस्य विशाम्पते ।
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥

3.191.129

ते नैव बालवेषेण श्रीवत्सकृतलक्षणम् ।
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥

3.191.130

ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव ।
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥

3.191.131

अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम ।
उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे ॥

3.191.132

मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा ।
मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम् ॥

3.191.133

तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ ।
सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ ॥

3.191.134

प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवनदितौ ।
दृष्ट्वाऽपरिमितं तस् प्रभावममितौजसः ॥

3.191.135

विनयेनाञ्जलिं कृत्वाप्रयत्नेनोपगम्य ह ।
दृष्टो मया स भूतात्मा देवः कमललोचनः ॥

3.191.136

तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम् ।
ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम् ॥

3.191.137

आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव ।
दृष्टवानखिलाँल्लोकान्समस्तान्जठरे हि ते ॥

3.191.138

तव देव शरीरस्था देवदानवराक्षसाः ।
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥

3.191.139

त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते ।
द्रुतमन्तःशरीरे ते सततं परिवर्तिनः ॥

3.191.140

निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो ।
यतिष्ये पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दितं ॥

3.191.141

इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥

3.191.142

किमर्थं च जगत्सर्वं शरीरस्थं तवानघ ।
कियन्तं च त्वया कालमिह स्थेयमरिन्दम ॥

3.191.143

एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया । त्वत्तः कमलपत्राक्षं विस्तरेण यथातथम् ।
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥

3.191.144

इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः । सान्त्वयन्मामिदं वाक्यमुवाच वदतांवरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc