भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.190

3.190.1

ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह ।
कथयस्वति चरितं मनोर्वैवस्वतस्य च ॥
मार्कण्डेय उवाच ।

3.190.2

विवस्वतः सुतो राजन्महर्षिः सुप्रतापवान् ।
बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥

3.190.3

ओजसातेजसा लक्ष्म्या तपसा च विशेषतः ।
अतिचक्राम पितरं मनुः स्वञ्च पितामहम् ॥

3.190.4

ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः ।
एकपादस्थितस्तीव्रं चकार सुमहत्तपः ॥

3.190.5

अवाकूशिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् ।
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥

3.190.6

तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् ।
चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥

3.190.7

भगवन्क्षुद्रमत्स्येस्मि बलवद्भ्यो भयम्मम ।
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥

3.190.8

दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः ।
भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥

3.190.9

तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः ।
त्रातुमर्हसि कर्तास्मि कृतेप्रतिकृतं तव ॥

3.190.10

स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः ।
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥

3.190.11

उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः ।
अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम् ॥

3.190.12

स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः ।
पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः ॥

3.190.13

अथ कालेन महता स मत्स्यः सुमहानभूत् ।
अलिञ्जरजले चैव नासौ समभवत्किल ॥

3.190.14

अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत ।
भगवन्साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय ॥

3.190.15

उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मनुः ।
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥

3.190.16

तत्रतं प्राक्षिपच्चापि मनुः परपुरञ्जय ।
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥

3.190.17

द्वियोजनायता वापी विस्तृताचापि योजनम् ।
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ॥

3.190.18

विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशाम्पते ।
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ॥

3.190.19

नय मां भगवन्साधो समुद्रमहिषीं प्रियाम् ।
गङ्गां नान्त्रापि शक्तोस्मि वस्तुं मतिमतांवर ॥

3.190.20

निदेशे हि मया तुभ्यं स्थातव्यमनसूयता ।
वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयाऽनघ ॥

3.190.21

एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी ।
नदीं गङ्गां तत्रचैनं स्वयं प्राक्षिपदेव च ॥

3.190.22

स तत्र ववृधे मत्स्यः कञ्चित्रालमरिन्दम ।
गतः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥

3.190.23

गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो ।
समुद्रं नय मामाशु प्रसीद भगवन्निति ॥

3.190.24

उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् ।
समुद्रमनयत्पार्त तत्रचैनमवासृजत् ॥

3.190.25

सुमहानपि मत्स्यस्तु स मनोर्नयतस्तदा ।
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥

3.190.26

यदा समुद्रे प्रक्षिप्तः स मत्स्यो ननुना तदा ।
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥

3.190.27

भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः ।
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥

3.190.28

अचिराद्भगवन्बौममिदं स्थावरजङ्गमम् ।
सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥

3.190.29

सम्प्रक्षालनकालोऽयंलोकानां समुपस्थितः ।
तस्मात्त्वां बोधयाम्यद्ययत्ते हितमनुत्तमम् ॥

3.190.30

त्रसानां स्तावराणां च यच्चेङ्गं यच्च नेङ्गति ।
तस्य सर्वस् सम्प्राप्तः कालः परमदारुणः ॥

3.190.31

नौश्च कारयितव्या ते दृढा युक्तवटारका ।
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥

3.190.32

बीजानि चैव सर्वाणि यथोक्तानि मया पुरा ।
तस्यामारोहयेर्नावि सुसन्गुप्तानि भागशः ॥

3.190.33

नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय ।
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥

3.190.34

एवमेतत्त्वया कार्यमापृष्टोसि व्रजाम्यहम् । ता न शक्या महत्यो वै आपस्तर्तुं मया विना ।
नातिशङ्क्यमिदं चापि वचनं मे त्वया विभो ॥

3.190.35

एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत ।
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥

3.190.36

ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह । बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ।
नौकया शुभयावीर महोर्मिणमरिन्दम ॥

3.190.37

चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते । सच तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय ।
शृङ्गी तत्राजगागाशु तदा भरतसत्तम ॥

3.190.38

तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे ।
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥

3.190.39

वटारकमयं पाशमथ मत्स्यस्य मूर्धनि ।
मनुर्मनुजशार्दूल तस् शृङ्गे न्यवेशयत् ॥

3.190.40

संयतस्तेन पाशेन मत्स्यः परपुरञ्जय ।
वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥

3.190.41

स ततार तया नावा समुद्रं मनुजेश्वर ।
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥

3.190.42

क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ ।
घूर्णते चपलेव स््री मत्ता परपुरञ्जय ॥

3.190.43

नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे ।
सर्वं सलिलमेवासीत्खं द्यौश्च नरपुङ्गव ॥

3.190.44

एवम्भूते तदा लोके सन्कुले भरतर्षभ ।
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्तथैव च ॥

3.190.45

एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः ।
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये ॥

3.190.46

ततो हिमवतः शृङ्गं यत्परं भरतर्षभ ।
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥

3.190.47

अथाब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः ।
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥

3.190.48

सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ ।
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥

3.190.49

तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् ।
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥

3.190.50

अथाब्रवीदनिमिषस्तानृषीन्सहितस्तदा । अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ।
मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात् ॥

3.190.51

मनुना च प्रजाः सर्वाः सदेवासुरमानुपाः ।
स्रष्टव्याः सर्वलोकाश्चयच्चेङ्गं यच्चा नेङ्गति ॥

3.190.52

तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति । मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ।
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः ॥

3.190.53

स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ।
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥

3.190.54

तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे ।
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥

3.190.55

इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् ।
आख्यानमिदमाख्यातं सर्वपापहरं मया ॥

3.190.56

य इदं शृणुयान्नित्यं मनोश्चरितमादितः । स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc