भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.186

3.186.1

तं विवक्षन्तमालक्ष्यकुरुराजो महामुनिम् ।
कथासञ्जननार्थाय चोदयामास पाण्डवः ॥

3.186.2

भवान्दैवतदैत्यानामृषीणां च महात्मनाम् ।
राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः ॥

3.186.3

सेव्यश्चोपासितव्यश् मतो नः काङ्क्षितश्चिरम् ।
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥

3.186.4

भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽत्मानं सुखाच्च्युतम् ।
धार्तराष्ट्रांश्च रदुर्त्तानृद्ध्यतः प्रेक्ष्य सर्वशः ॥

3.186.5

कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा ।
स्वफलं तदुपाश्नापि कथं कर्ता स्विदीश्वरः ॥

3.186.6

अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर ।
इह वा कृतमन्वेति परदेहेऽथवा पुनः ॥

3.186.7

देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः ।
कथं संयुज्यतेप्रेत्य इह वा द्विजसत्तम ॥

3.186.8

ऐहलौकिकमेवैतदुताहो पारलौकिकम् ।
क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥
मार्कण्डेय उवाच ।

3.186.9

त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतांवर ।
विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि ॥

3.186.10

अत्र ते कथयिष्यामि तदिहैकमनाः शृणु ।
यथेहामुत्र च नर सुखदुःखमुपाश्नुते ॥

3.186.11

निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् ।
ससर्ज धṟमतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥

3.186.12

अमोघफलसन्कल्पाः सुव्रताः सत्यवादिनः ।
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम ॥

3.186.13

सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् ।
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥

3.186.14

स्वच्चन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः ।
अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः ॥

3.186.15

द्रष्टारोदेवसङ्घानामृषीणां च महात्मनाम् ।
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥

3.186.16

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः ॥

3.186.17

कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः ।
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥

3.186.18

अशुभैः कर्मभिः पापास्तिर्यङ्गिरयगामिनः ।
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥

3.186.19

मोघेष्टा मोघसन्कल्पा मोघज्ञाना विचेतसः ।
काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः ॥

3.186.20

सर्वाभिशङ्खिनश्चैव संवृत्ताः क्लेदायिनः ।
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥

3.186.21

दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः । भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ।
नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः ॥

3.186.22

जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः ।
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥

3.186.23

क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् ।
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥

3.186.24

अयमादिशरीरेण देवसृष्टेन मानवः ।
शुभानामशुभानां च कुरुते सञ्चयं महत् ॥

3.186.25

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेबरम् ।
सम्भवत्येव युगपद्योनौ नास्त्यन्तराऽभवः ॥

3.186.26

तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा ।
फलत्यथ सुखार्हो वा दुःखार्होवाऽथ जायते ॥

3.186.27

कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः ।
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥

3.186.28

एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर ।
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥

3.186.29

मनुष्यास्तप्ततपसः सर्वागमपरायणाः ।
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥

3.186.30

सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः ।
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥

3.186.31

जितेनद्रियत्वाद्वशिनः सत्कृत्यान्मन्दरागिणः ।
अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः ॥

3.186.32

च्यवन्तं जायमानं च गर्भस्यं चैव सर्वशः ।
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ॥

3.186.33

ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः । कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ।
कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ ॥

3.186.34

किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः ।
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्याविचारणा ॥

3.186.35

इमामत्रोपमां चापि निबोध वदतांवर ।
मनुष्यलोके यच्छ्रेयः परम्मन्ये युधिष्ठिर ॥

3.186.36

इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह चामुत्र चैकस् नामुत्रैकस्य नो इह ॥

3.186.37

धनानि येषां विपुलानि सन्ति नित्यंरमन्ते सुविभूषिताङ्गाः ।
तेषामयं शत्रुवरघ्नलोको नासौ सदा ग्राम्यसुखे रतानाम् ॥

3.186.38

ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान् ।
जितेन्द्रिया भूतहिते निविष्टा स्तेषामसौ नायमरिघ्नलोकः ॥

3.186.39

ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले ।
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः ॥

3.186.40

ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते ।
न चापिगच्छन्ति शुभान्यभाग्या- स्तेषामयं चैव परश्च नास्ति ॥

3.186.41

सर्वे भवन्तस्त्वतिवीर्यसत्वा दिव्यौजसः संहननोपपन्नाः ।
लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः ॥

3.186.42

कृत्वैव कर्माणै महान्ति शूरा- स्तपोदमाचारविहारशीलाः ।
देवानृषीन्प्रेतगतांसच् सर्वा- न्सन्तर्पयित्वा विधिना परेण ॥

3.186.43

स्वर्गं परं पुण्यकृतां निवासं क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः ।
माभूद्विशङ्का तव कौरवेन्द्र दृष्ट्वाऽत्मनः क्लेशमिमं सुखार्थम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc