भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.171

3.171.1

ततोऽहं स्तूयमानस्तु तत्रतत्र सुरपिभिः ।
अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् ॥

3.171.2

फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छिताः ।
ऊर्मयश्चात्र दृश्यन्ते चलन्तैव पर्वताः ॥

3.171.3

नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ।
नभसीव विमानानि विचरन्त्यो विरेजिरे ॥

3.171.4

तिमिङ्गिलाः कच्छपाश् तथा तिमितिभिङ्गिलाः ।
मकराश्चात्र दृश्यन्ते जले मप्रा इवाद्रयः ॥

3.171.5

शङ्खानां च महबाणि मग्रान्यप्सु ममन्ततः ।
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रमंवृताः ॥

3.171.6

तथा सहस्रशस्तत्ररत्नसङ्घाः प्लवन्त्युत ।
वायुश् घृर्णते भीमस्तदद्भुतमिवाभवत् ॥

3.171.7

तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् ।
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥

3.171.8

तत्रैव मातलिस्तृणं निपात्य पृथिवीतले ।
दानवान्रथघोपेण तन्पुरं समुपाद्रवत् ॥

3.171.9

रथघोषं तु तं श्रुत्वा स्तनयित्नोग्विम्बरे ।
मन्वाना देवराजं मामाविग्ना दानवाऽभवन् ॥

3.171.10

सर्वे सम्भ्रान्तमनसः शग्चापधराः स्थिताः ।
तथाऽसिशूलपरशुगदामुसलपाणयः ॥

3.171.11

ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः ।
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥

3.171.12

ततः शङ्खमुपादाय देवदत्तं महास्वनम् ।
परमां मुदमाश्रित्य प्राधमं तं शनैरहम् ॥

3.171.13

स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् ।
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥

3.171.14

ततो निवातकवचाः सर्व एव समन्ततः ।
दंशिता विविधैस्त्राणैर्विचित्रायुपाणयः ॥

3.171.15

आयसैश्र महाशूलैर्गदाभिर्मुसलैरपि ।
पट्टसैः करवालैश्च रथचक्रैश्च भारत ॥

3.171.16

शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलन्कृतैः ।
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥

3.171.17

ततो विचार्य बहुशो रथमार्गेषु तान्हयान् ।
प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥

3.171.18

तेन तेषां प्रणुन्नानासाशुत्वाच्छीघ्रगामिनाम् ।
नान्वपश्यत्तदा कश्रित्तन्मेऽद्भुतमिवाभवत् ॥

3.171.19

ततस्ते दानवास्तत्रयोधवातान्यनेकशः ।
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥

3.171.20

तेन शब्देन सहसा समुद्रे पर्वतोपमाः ।
आप्लवन्त गतैः सत्वैर्मत्स्याः शतसहस्रशः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc