भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.170

3.170.1

कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः ।
रसंस्पृश्य मूर्ध्नि पाणिब्यामिदं वचनमब्रवीत् ॥

3.170.2

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि ।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥

3.170.3

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ।
अजेयस्त्वं हि सङ्ग्रामे सर्वैरपिसुरासुरैः ॥

3.170.4

अथाब्रवीत्पुनर्देवः सम्प्रहृष्टतनूरुहः ।
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥

3.170.5

अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ।
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥

3.170.6

अस्त्राणि समवाप्तानि त्वया दश च पञ्च च ।
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः ॥

3.170.7

प्रयोगमुपसंहारमावृत्तिं च धनञ्जय ।
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः ॥

3.170.8

तव गुर्वर्थकालोऽयं समुत्पन्नः परन्तप ।
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम् ॥

3.170.9

ततोऽहमब्रवं राजन्देवराजमिदं वचः ।
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत् ॥

3.170.10

ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा ।
नाविपह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन ॥

3.170.11

निवातकवचा नाम दानवा मम शत्रवः ।
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥

3.170.12

तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ।
तांस्तत्रजहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥

3.170.13

ततो मातलिसंयुक्तं मयूरसमरोमभिः ।
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥

3.170.14

बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् ।
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥

3.170.15

अभेद्यं कवचं चेदं स्पर्सरूपवदुत्तमम् ।
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥

3.170.16

ततः प्रायामहं तेन स्यन्दनेन विराजता ।
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥

3.170.17

ततो देवाः सर्व एव तेन घोषेण बोधिताः ।
मन्वाना देवराजं मां समाजग्मुर्विशाम्पते ॥

3.170.18

दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ।
तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे ॥

3.170.19

निवातकवचानां तु प्रस्थितं मां तधैपिणम् ।
निबोधत महाभागा शिवं चाशास्त मेऽनघाः ॥

3.170.20

ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते ।
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरन्दरम् ॥

3.170.21

रथेनानेन मघवा जितवाञ्शम्बरं युधि ।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥

3.170.22

बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि ।
रथेनानेन दैत्यानां जितवान्मघवा युधि ॥

3.170.23

न्वमप्यनेन कौन्तेय निबातकवचान्रणे ।
विजेता युधि विक्रम्य पुरेव मघवा वशी ॥

3.170.24

अयञ्च शङ्खप्रवरो येन जेतासि दानवान् ।
अनेन विजिता लोका शक्रेणापि महात्मना ॥

3.170.25

प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम् ।
प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः ॥

3.170.26

स शङ्खी कवची वाणी प्रगृहीतशरासनः । दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc