महाभारत · अध्याय 3.166
ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम् ।
विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव ॥
स दीप्यमानः सहसाऽन्तरिक्षं प्रकाशयन्मातलिसन्गृहीतः ।
बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा ॥
तमास्थितः सन्ददृशे किरीटी स्रग्वी नवान्याभरणानि बिभ्रत् ।
धनञ्जयो वज्रधरप्रभावः श्रिया ज्वलन्पर्वतमाजगाम् ॥
स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात् ।
धौम्यस्य पादावभिवाद्य पूर्व- मजातशत्रोस्तदनन्तरं च ॥
वृकोदरस्यापि च वन्द्य पादौ माद्रीसुताभ्यामभिवादितश्च ।
समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥
बभूव तेषां परमः प्रहर्ष- स्तेनाप्रमेयेण समेत्य तत्र ।
स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन् ॥
यमास्थितः सप्त जघान पूगान् दितेः सुतानां नमुचेर्निहन्ता ।
तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्वाः ॥
ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम् ।
सर्वं यथावच्च दिवौकसङ्घं पप्रच्युरेनं कुरुराजपुत्राः ॥
तानप्यसौ मातलिरभ्यनन्द- त्पितेव पुत्राननुशिष्य पार्थान् ।
ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य ॥
गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी ।
साक्षात्सहस्राक्ष इव प्रतीतः श्रीमान्स्वदेहादवमुच्य जिष्णुः ॥
शक्रेण दत्तानिददौ महात्मा महाधनान्युत्तमरूपवन्ति ।
दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे ॥
ततऋः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम् ।
विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयाम्बभूव ॥
एवं मयाऽस्त्राण्युपशिक्षितानि शक्राच्च वायोश्च शिवाच्च साक्षात् ।
तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः ॥
सन्क्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवःप्रवेशम् ।
माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0