भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.165

3.165.1

तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम् ।
रतिः प्रमोदश्च बभूव तेषा- माकाङ्क्षतां दर्शनमर्जुनस्य ॥

3.165.2

तान्वीर्ययुक्तान्सुविशुद्धसत्वां- स्तेजस्विनः सत्यधृतिप्रधानान् ।
सम्प्रीयमाणा बहवोऽबिजग्मु- र्गन्धर्वसङ्घाश्च महर्षयश्च ॥

3.165.3

तं पादपैः पुष्पफलैरुपेतं नगोत्तमं प्राप्य महारथानाम् ।
मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम् ॥

3.165.4

मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य ।
शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः ॥

3.165.5

साक्षात्कुबेरेण कृताश्च तस्मि- न्नगोत्तमे संवृतकूटगुल्माः ।
कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन् ॥

3.165.6

क्रीडाप्रदेशांस्च समृद्धरूपा- न्सवेदिकांस्ते न्यवसन्सुवेशान् ।
मणिप्रकीर्णांश्च मनोरमांश्च यथा भवेयुर्नदस्य राज्ञः ॥

3.165.7

अनेकवर्णैश् सुगन्धिभिश्च महाद्रुमैः सन्ततमभ्रजालैः ।
तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥

3.165.8

स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात् ।
विभक्तरूपः सविता बभूव निशामुखं प्राप्य नरर्षभाणाम् ॥

3.165.9

यमास्थितः स्थावरजङ्गमानां विभावसुर्भाविता हरीशः ।
तस्योदयं चास्तमनं च वीर- स्तत्रस्थितास्ते ददृशुर्नृसिंहाः ॥

3.165.10

रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः ।
समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च ॥

3.165.11

स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च ।
सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः ॥

3.165.12

इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनञ्जयेन ।
इति ब्रुवन्तः परमाशिपस्ते पार्थास्तपोयोगपरा बभूवुः ॥

3.165.13

दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम् ।
बभूव राविर्दिवसश्च तेषां संवत्सरेणैव समानरूपः ॥

3.165.14

यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितः स जिष्णुः ।
तदैव तेषां नबभूव हर्षः कुतो रतिस्तद्गतमानसानाम् ॥

3.165.15

भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी ।
यत्काम्यकात्प्रव्रजितः स जिष्णु- स्तदैव ते शोकहता बभूवुः ॥

3.165.16

तथैव तं चिन्तयतां सिताश्व- मस्त्रार्थिनं वासवमभ्युपेतम् ।
कालः स कृच्छ्रेण महानतीत- स्तस्मिन्नगे भारत भारतानाम् ॥

3.165.17

[उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने ।
अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् ॥

3.165.18

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ॥

3.165.19

यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं ।
तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् ॥

3.165.20

अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम् । आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc