भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.151

3.151.1

एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् ।
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ॥

3.151.2

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ।
मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम् ॥

3.151.3

अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ।
एतत्तु कृतमिच्छामि त्वयाऽर्येण प्रियं मम ॥

3.151.4

यत्त्वेतदासीत्प्लवतः सागरं मकरालयम् ।
रूपमप्रतिमं वीर तदिच्छामि नीरीक्षितुम् ॥

3.151.5

एवं तुष्टो मभिष्यामि श्रद्धास्यामि च ते वचः ।
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥

3.151.6

न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् । कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् ।
ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम ॥

3.151.7

अन्यः कृतयुगे कालश्रेतायां द्वापरे परः ।
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥

3.151.8

भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः ।
कालं समनुवर्तन्ते यथा भावा युगेयुगे ॥

3.151.9

कालन्कालं समासाद्य नराणां नरपुङ्गव ।
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥

3.151.10

तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह ।
युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥
भीम उवाच ।

3.151.11

युगसङ्ख्यां समाचक्ष्व आचारं च युगेयुगे ।
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ॥
हनूमानुवाच ।

3.151.12

कृतं नाम युगं श्रेष्ठं यत्रधर्मः सनातनः ।
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥

3.151.13

न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः ।
ततः कृतयुगं नाम कालेन गुणतां गतम् ॥

3.151.14

देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।
नासन्कृतयुगे तात तदा न क्रयविक्रयः ॥

3.151.15

न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी ।
अभिध्याय फलं तत्र धर्मः सन्न्यास एव च ॥

3.151.16

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।
नासूया नापि रुदितं न दर्पो नापि वैकृतम् ॥

3.151.17

न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम् ।
न भयं नापि सन्तापो न चेर्ष्या न च मत्सरः ॥

3.151.18

ततः परमकं ब्रह्म सा गतिर्योगिनां परा ।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥

3.151.19

ब्राह्मणआः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥

3.151.20

समाश्रयं समाचारं समज्ञानं च केवलम् ।
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥

3.151.21

एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः ।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥

3.151.22

चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना ।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥

3.151.23

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥

3.151.24

कामः कामयमानेषु ब्राह्मणेषु तिरोहितः ।
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ॥

3.151.25

त्रेतामपि निबोध त्वं यस्मन्सत्रं प्रवर्तते ।
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ॥

3.151.26

सत्यप्रवृत्ताश्च नराः क्रिया धर्मपरायणाः ।
ततो यज्ञाः प्रवर्तन्ते धर्माश्चविविधाः क्रियाः ॥

3.151.27

त्रेतायां भावसन्कल्पाः क्रियादानफलोपगाः । प्रचलन्ति न वै धर्मात्तपोदानपरायणाः ।
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन् ॥

3.151.28

द्वापरे च युगे धर्मो द्विभागो नः प्रवर्तते ।
विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥

3.151.29

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथा परे ।
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ॥

3.151.30

एवं शास्त्रेषु भिननेषु बहुधा नीयते क्रिया ।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥

3.151.31

एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः ।
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥

3.151.32

सत्यात्प्रच्यवमानानां व्याघयो बहवोऽभवन् ।
कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः ॥

3.151.33

यैरर्द्यभानाः सुभृशं तपस्तप्यन्ति मानवाः ।
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥

3.151.34

एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ।
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥

3.151.35

तामसं युगमासाद्य कृष्णो भवति केशवः ।
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥

3.151.36

ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा ।
उपद्रवाः प्रवर्तन्ते आधयो व्याधयस्तथा ॥

3.151.37

युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः ।
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥

3.151.38

लोके क्षीणे क्षयं यानति भावा लोकप्रवर्तकाः ।
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥

3.151.39

एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते ।
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥

3.151.40

यच्च ते मत्परिज्ञाने कौतूहलमरिन्दम ।
अनर्थकेषु को भावः पुरुषस्य विजानतः ॥

3.151.41

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc