भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.150

3.150.1

हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः ।
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥

3.150.2

तेन तस्याभवत्सख्यं राघवस्य महात्मनः ।
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ॥

3.150.3

स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे ।
वानरान्प्रेषयामास शतशोऽथ सहस्रशः ॥

3.150.4

ततो वानरकोटीभिः सहितोऽहं नरर्षभ ।
सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम् ॥

3.150.5

ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना ।
सम्पातिना समाख्याता रावणस्य निवेशने ॥

3.150.6

ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः ।
शतयोजनविस्तारमर्णवं सहसा प्लुतः ॥

3.150.7

अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम् ।
सुतां जनकराजस्य सीतां सुररसुतोपमाम् ॥

3.150.8

दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने ।
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम् ॥

3.150.9

दग्ध्वा लङ्कामशेषेण सादृप्राकारतोरणाम् ।
प्रत्यागतश्चास्य पुनर्नाम तत्रप्रकाश्य वै ॥

3.150.10

मद्वाक्यं चावधार्याशु रामो राजीवलोचनः । अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ ।
वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् ॥

3.150.11

ततो ररामेण वीर्येण हत्वा तान्सर्वराक्षसान् ।
रणे तु राक्षसगणं रावणं लोकरावणम् ॥

3.150.12

निशाचरेनद्रं हत्वा तु सभ्रातृसुतबान्धवम् ।
राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् ॥

3.150.13

धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः ।
प्रत्याहृत्य ततः सीतां नष्टां वेदश्रुतिं यथा ॥

3.150.14

तयैव सहितः साध्व्या पत्न्या रामो महायशाः । गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः ।
अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः ॥

3.150.15

ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः ।
वरं मया याचितोऽसौ रामो राजीवलोचनः ॥

3.150.16

यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन् ।
तावज्जीवेयमित्येवं तथाऽस्त्विति च सोब्रवीत् ॥

3.150.17

सीताप्रसादाच्च सदा मामिहस्थमरिन्दम ।
उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः ॥

3.150.18

दशवर्षसहस्राणि दशवर्षशतानि च ।
राज्यं कारितवान्रामस्ततः स्वभवनं गतः ॥

3.150.19

तदिहाप्सरसस्तात गन्धर्वाश्च सदाऽनघ ।
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥

3.150.20

अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन ।
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ॥

3.150.21

त्वामनेन पथा यान्तं यक्षो वा राक्षसोपि वा ।
धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति भारत ॥

3.150.22

दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः । यदर्थमागतश्चासि अत एव सरश्च तत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc