भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.144

3.144.1

द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः ।
तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः ॥

3.144.2

पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति ।
समाहीता निरुद्विग्नाः सर्वे भवत पाण्डवाः ॥

3.144.3

अयं देवनिवासो वै गन्तव्यो वो भविष्यति ।
ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणां ॥

3.144.4

एषा शिवजला पुण्या याति सौम्य महानदी ।
बदरीप्रभवा राजन्देवर्षिगणसेविता ॥

3.144.5

एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः ।
अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः ॥

3.144.6

अत्रसाम स्म गायन्ति सामगाः पुण्यनिःस्वनाः ।
मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा ॥

3.144.7

अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः ।
साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा ॥

3.144.8

चन्द्रमाः सह सूर्येण ज्योतीषि च ग्रहैः सह ।
अहोरात्रविभागेन नदीमेनामनुव्रजन् ॥

3.144.9

एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत् ।
गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत् ॥

3.144.10

एतां भगवतीं देवीं भवन्तः सर्व एव हि ।
प्रयतेनात्मना तात प्रतिगम्याभिवादत ॥

3.144.11

तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः ।
आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन् ॥

3.144.12

अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः ।
पुनः प्रयाताः संहृष्टाः सर्वैरृषिगणैः सह ॥

3.144.13

ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसन्निभम् ।
ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् ॥

3.144.14

तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः ।
उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः ॥

3.144.15

एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम् ।
यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम् ॥

3.144.16

एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः ।
पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् ॥

3.144.17

पुरातनेन देवेन विष्णुना परमात्मना ।
रदैत्यो विनिहतस्तेन सुरराजहितैषिणा ॥

3.144.18

दशवर्षसहस्राणि तपस्तप्यन्महामनाः ।
ऐनद्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् ॥

3.144.19

तपोबलेन महता बाहुवेगबलेन च ।
नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः ॥

3.144.20

स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम् ।
भयाभिभूतः संविग्नः शक्र आसीत्तदाऽनघ ॥

3.144.21

तेन सञ्चिन्तितो देवो मनसा विष्णुरव्ययः ।
सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ ॥

3.144.22

ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः ॥

3.144.23

तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः ।
नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः ॥

3.144.24

तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम् । प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत् ।
प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत् ॥
विष्णुरुवाच ।

3.144.25

जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः ।
ऐन्द्रं रप्रार्थयते स्थानं तपःसिद्धेन कर्मणा ॥

3.144.26

सोहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम् ।
वियुनज्मि देहाद्देवेनद्र मुहूर्तं प्रतिपालय ॥
लोमश उवाच ।

3.144.27

तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत् । स पपात ततो भूमौ गिरिराज इवाहतः ।
तस्यैतदस्थिसन्घातं मायाविनिहतस्य वै ॥

3.144.28

इदं द्वितीयमपरं विष्णो कर्म प्रकाशते ॥

3.144.29

नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता ।
पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा ॥
युधिष्ठिर उवाच ।

3.144.30

मगवन्विस्तरेणेमां कथां कथय तत्त्वतः ॥

3.144.31

कथं तेन सुरेशेन नष्टा वसुमती तदा ।
योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा ॥

3.144.32

केन चैव प्रकारेण जगतो धरणी ध्रुवा । शिवा देवी महाभागा सर्वसस्यप्ररोहिणी ।
कस्य चैव प्रभावाद्धि योजनानां शतं गता ॥

3.144.33

श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः ॥
लोमश उवाच ।

3.144.34

यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर ।
तत्सर्वमखिलेनेह श्रूयतां मम भाषतः ॥

3.144.35

पुरा कृतयुगे तात वर्तमाने भयन्करे ।
यमत्वं कारयामास आदिदेवः पुरातनः ॥

3.144.36

यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः ।
न तत्र म्रियते कश्चिज्जायते वा तथाऽच्युत ॥

3.144.37

वर्धन्ते पक्षिसङ्घाश्च तथा पशुगवेडकम् ।
गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः ॥

3.144.38

तथा पुरुषशार्दूल मानुपाश्च परन्तप ।
सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा ॥

3.144.39

एतस्मिन्सन्कुले तात वर्तमाने भयन्करे ।
अतिभाराद्वसुमती योजनानां शतं गता ॥

3.144.40

सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना ।
नारायणं वरं देवं प्रपन्ना शरणं गता ॥
पृथिव्युवाच ।

3.144.41

भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह ।
भारेणास्मि समाक्रान्ता न शक्नोस्मि स्म वर्तितुम् ॥

3.144.42

ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि ।
शरणागताऽस्मि ते देव प्रसादं कुरु मे विभो ॥

3.144.43

तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः ।
प्रोवाच वचनं हृष्टः श्राव्यारसमीरितम् ॥

3.144.44

न ते महि भयं कार्यं भारार्ते वसुधारिणि ।
अयमेवं तथा कुर्मि यथा लध्वी भविष्यसि ॥
लोमश उवाच ।

3.144.45

स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम् ।
ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः ॥

3.144.46

रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव ।
धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत ॥

3.144.47

स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता ।
योजनानां शतं वीर समुद्धरति सोऽक्षरः ॥

3.144.48

तस्यां चोद्धार्यमाणायां सन्क्षोभः समजायत ।
देवाः सन्क्षुभिताः सर्वे ऋषयश्च तपोधनाः ॥

3.144.49

हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा ।
न पर्यवस्थितः कश्चिद्देवो वा मानुषोपि वा ॥

3.144.50

ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया ।
देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः ॥

3.144.51

उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम् ।
भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा ॥

3.144.52

लोकाः सन्क्षुभिताः सर्वे व्याकुलं च चराचरम् ।
समुद्राणां च सन्क्षोभस्त्रिदशेश प्रकाशते ॥

3.144.53

सैषा वसुमती कृत्स्ना योजनानां शतं गता । किमेतत्किम्प्रभावेण येनेदं रव्याकुलं जगत् ।
आख्यातु नो भवाञ्शीघ्रं विसञ्ज्ञाः स्मेह सर्वशः ॥
ब्रह्मोवाच ।

3.144.54

असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित् ।
श्रूयतां यत्कृते त्वेष सन्क्षोभो जायतेऽमराः ॥

3.144.55

योसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः ।
तस्य प्रभावात्सन्क्षोभस्त्रिदिवस्य प्रकाशते ॥

3.144.56

यैषा वसुमती कृत्स्ना योजनानां शतं गता ।
समुद्धृता पुनस्तेन विष्णुना परमात्मना ॥

3.144.57

तस्यामुद्धार्यमाणायां सन्क्षोभः समजायत ।
एवं भवन्तो जानन्तु च्छिद्यतां संशयश्च वः ॥
देवा ऊचुः ।

3.144.58

क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत् ।
तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम् ॥
ब्रह्मोवाच ।

3.144.59

हन्त गच्छत भद्रं वो नन्दने पशय्त स्थितम् ।
एषोत्र भगवाञ्श्रीमान्मुपर्णः सम्प्रकाशते ॥

3.144.60

वारादेणैव रूपेण भगवाँल्लोकभावनः ।
कालानल इवाभाति पृथिवीतलमुद्धरन् ॥

3.144.61

एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते ।
पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम् ॥
लोमश उवाच ।

3.144.62

ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः ।
पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम् ॥
वैशम्पायन उवाच ।

3.144.63

श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय । लोमशादेशितेनाशु यथा जग्मुः प्रहृष्टवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc