भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.143

3.143.1

भीमसेनयमौ चोभौ पाञ्चालि च निबोधत ।
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥

3.143.2

दुर्बलाः क्लेशिताः स्मेति यद्ब्रुवामेतरेतरम् ।
अशक्येऽपि व्रजामो यद्नञ्जयदिदृक्षया ॥

3.143.3

तन्मे दहति गात्राणि तूलराशिमिवानलः ।
यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके ॥

3.143.4

तस्यादर्शनतप्तं मां सानुजं वनमास्थितम् ।
याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥

3.143.5

नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥

3.143.6

तीर्थानि चैव रम्याणि वनानि च सरांसि च ।
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥

3.143.7

पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् ।
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥

3.143.8

तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् ।
न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥

3.143.9

कृतास्त्रं निपुणं युद्देऽव्रतिमानं धनुष्मताम् ।
न पश्यामि कुरुश्रेष्ठ तेन तप्ये वृकोदर ॥

3.143.10

चरन्तमरिसङ्घेषु क्रुद्धं कालमिवानघ ।
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम् ॥

3.143.11

यः स शक्रादनवरो वीर्येण च बलेन च ।
यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥

3.143.12

नारायणसमो युद्धे सत्यसन्धो दृढव्रतः ।
तं ममापश्यतो भीम न शान्तिर्हृदयस्य वै ॥

3.143.13

दुःखेन महताऽविष्टश्चिन्तयामि दिवानिशम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥

3.143.14

सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा ।
ऋजुमार्गप्रपन्नस्य शर्मदाता भयस्य च ॥

3.143.15

स तु जिह्मप्रवृत्तस्य माययाऽभिजिघांसतः ।
अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥

3.143.16

शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् ।
दाताऽभयस् बीभत्सुरमितात्मा महाहलः ॥

3.143.17

सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता ।
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥

3.143.18

रत्नानि यस्य वीर्येण दिव्यान्यासत्पुरा मम ।
बहूनि बहुजातीनि यानि प्राप्तः सुयोधनः ॥

3.143.19

यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम ।
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥

3.143.20

वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि ।
अजेयममितं युद्धे तं न पश्यामि फल्गुनम् ॥

3.143.21

सन्कर्षणं महावीर्यं त्वां च भीमापराजितम् ।
अनुयातः स्ववीर्येण वासुदेवं च शत्रुहा ॥

3.143.22

यस् बाहुबले तुल्यः प्रभावे च पुरन्दरः ।
जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥

3.143.23

ते वयं तं नरव्याघ्रं सर्वेवीर दिदृक्षवः ।
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥

3.143.24

विशाला बदरी यत्रनरनारायणाश्रमः ।
तं सदाऽध्युषितं यक्षैर्द्रक्ष्यामो गिरिसुत्तमम् ॥

3.143.25

कुबेरनलिनीं रम्यां राक्षसैरभिसेविताम् ।
पद्भिरेव गमिष्यामस्तप्यभाना महत्तपः ॥

3.143.26

नातप्ततपसा शक्यो गन्तुं देशो वृकोदर ।
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥

3.143.27

तत्र सर्वेगमिष्यामो भीमार्जुपदैषिणः ।
सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः ॥

3.143.28

मक्षिकादंशमशकान्सिंहान्व्याघ्रान्सरीसृपान् ।
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥

3.143.29

ते वयं नियतात्मानः पर्वतं गन्धमादनम् । प्रवेक्ष्यामो मिताहारा धनञ्जयदिदृक्षवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc