भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.140

3.140.1

एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः ।
सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान् ॥

3.140.2

तेन रैभ्यस्य वै पुत्रावर्वावसुपरासू ।
वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता ॥

3.140.3

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः ।
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥

3.140.4

अथावलोककोऽगच्छद्गृहानकः परावसुः ।
कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥

3.140.5

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यापि ।
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥

3.140.6

मृगं तु मन्यमानेन पिता वै तेन हिंसितः ।
अकामयानेन तदा शरीरत्राणमिच्छता ॥

3.140.7

तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत ।
पुनरागम्य तत्सत्रमब्रवीद्धातरं वचः ॥

3.140.8

इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन ।
मया च हिंसितस्तातो मन्यमानेन वै मृगम् ॥

3.140.9

सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्मघातिनाम् ।
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥
अर्वावसुरुवाच ।

3.140.10

करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः ।
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥
लोमश उवाच ।

3.140.11

स तस्यब्रह्महत्यायाः पारं गत्वा युधिष्ठिर ।
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥

3.140.12

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् ।
बृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम् ॥

3.140.13

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति ।
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम् ॥
लोमश उवाच ।

3.140.14

तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट््पते । प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा ।
न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः ॥

3.140.15

उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत । नैवस्म प्रतिजानामि ब्र्हमहत्यां स्वयन्कृताम् ।
मम भ्रात्रा कृतमिदं मया स परिमोक्षितः ॥

3.140.16

स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः ।
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः ॥

3.140.17

उग्रं तपः समास्थाय दिवाकरमथाश्रितः ।
रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः ॥

3.140.18

मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः ॥ 3-140-19अप्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप । तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥

3.140.20

ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ॥

3.140.21

स चापि वरयामास पितुरुत्थानमात्मनः ।
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे ॥

3.140.22

भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ।
प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः ॥

3.140.23

एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः ।
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ॥

3.140.24

अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ।
समधीतं मया ब्रह्म व्रतानि चरितानि च ॥

3.140.25

कथं च रैभ्यः शक्तो मामदीयानं तपस्विनम् ।
तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥
देवा ऊचुः ।

3.140.26

मैवं कृथा यवक्रीत यथा वदसि वै मुने ।
ऋते गुरुमधीता हि स्वयं वेदास्त्वया पुरा ॥

3.140.27

अनन तु गुरूनदुःखात्तोषयित्वाऽत्मक्रमणा ।
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥
लोमश उवाच ।

3.140.28

यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः ।
सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥

3.140.29

ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह ।
अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर ॥

3.140.30

आस्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः । अत्रोष्य राजशार्दूल सर्वपापैः प्रभोक्ष्यसे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc