महाभारत · अध्याय 3.141
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत ।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥
एषा गङ्गा सप्तविधा राजते भरतर्षभ ।
स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते ॥
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम् ।
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥
एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम् ।
अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम् ॥
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् ।
यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट् ॥
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः ।
तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥
तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते ।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः ।
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः ।
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥
कैलासः पर्वतो राजन्पड्योजनशतोच्छ्रितः ।
यत्रदेवाः समायान्ति विशाला यत्र भारत ॥
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः ।
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥
तान्विगाहस्व पार्थाद्य तपसा च दमेन च ।
रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥
स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः ।
गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते ॥
मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च ।
स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते ॥
इन्द्रस्य जाम्बूनदपर्वताद्वै शृणोमि घोषं तव देवि गङ्गे ।
गोपाययेमं सुभगे गिरिभ्यः सर्वाजमीढापचितं नरेन्द्रम् ॥
ददस्व शर्म प्रविविक्षतोऽस्य शैलानिमाञ्छैलसुते नृपस्य ।
शिवप्रदा सर्वसरित्प्रधाने स भ्रातृकस्येह युधिष्ठिरस्य ।
युधिष्ठिर उवाच ।
अपूर्वोऽयं सम्भ्रमो लोमशस्य कृष्णां च सर्वे रक्षत मा प्रमादः ।
देशो ह्ययं दुर्गतमो मतोऽस्य तस्मात्परं शौचमिहाचरध्वम् ॥
वैशम्पायन उवाच ।
ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन ।
शून्येऽर्जुनेऽसन्निहिते च तात त्वामेव कृष्णा भजते भयेषु ॥
ततो महात्मां स यमौ समेत्य मूर्धन्युपाघ्राय विमृज्यगात्रे ।
उवाच तौ बाष्पकलं स राजा मा बैष्टमागच्छतमप्रमत्तौ ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0