भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.124

3.124.1

कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप ।
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥

3.124.2

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव ।
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥

3.124.3

कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च ।
इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने ॥

3.124.4

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ।
शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च ॥

3.124.5

नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता ।
साऽहंसर्वात्मना नित्यं भर्तारमनुवर्तिनी ॥

3.124.6

अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु ।
कथं त्वमसि कल्याणि पित्रा दत्ताऽगता वने ॥

3.124.7

भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा ।
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥

3.124.8

अनाभरणसम्पन्ना परमाम्बरवर्जिता ।
शोभयस्यधिकं भद्रे वनमप्यनलन्कृता ॥

3.124.9

सर्वाभरणसम्पनना परमाम्वरधारिणी ।
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥

3.124.10

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ।
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥

3.124.11

असमर्थं परित्राणे पोषणे तु शुचिस्मिते ।
सा त्वं च्यवनमुत्सृज्यवरयस्वैकमावयोः ॥

3.124.12

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ।
एवमुक्ता सुकन्याऽपि सुरौ ताविदमब्रवीत् ॥

3.124.13

रताऽहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम् ।
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ॥

3.124.14

युवानं रूपसम्पन्नं करिष्यावः पतिं तव । ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम् ।
एतेन समयेनैनमामन्त्रय पतिं शुभे ॥

3.124.15

सा तयोर्वचनाद्राजन्नुपसन्गम्य भार्गवम् ।
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥

3.124.16

तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति ।
सा भर्त्रा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥

3.124.17

श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति ।
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥

3.124.18

ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ।
अश्विनावपि तद्राजन्सरः प्राविशतां तदा ॥

3.124.19

ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्त्रयः । दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ।
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः ॥

3.124.20

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ।
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥

3.124.21

त्वमश्विनोरन्यतरं च्यवनं वा यशस्विनि ।
यत्र वाऽप्यभिकामाऽसि तं वृणीष्व सुशोभने ॥

3.124.22

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ।
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥

3.124.23

लब्ध्वा तु च्यवनो भार्यांवयोरूपं च वाञ्छितम् ।
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥

3.124.24

यथाऽहं रूपसम्पन्नो वयसा च समन्वितः ।
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥

3.124.25

तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥

3.124.26

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः । च्यवनश्च सुकन्या च सुराविव विजह्रतुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc