भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.123

3.123.1

भृगोर्महर्षेः पुत्रोऽभूच्चयवनो नाम भारत ।
समीपे सरसस्तस्य तपस्तेपे महाद्युतिः ॥

3.123.2

स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव ।
अतिष्ठत चिरं कालमेकदेशे विशाम्पते ॥

3.123.3

सवल्मीकोऽभवदृषिर्लताभिरिव संवृतः ।
कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥

3.123.4

तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः ।
तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥

3.123.5

अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः ।
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥

3.123.6

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ।
एकैव च सुता सुभ्रूः सुकन्या नाम भारत ॥

3.123.7

सा सखीभिः परिवृता दिव्याभरणभूषिता ।
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥

3.123.8

सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम् ।
वनस्पतीन्प्रचिन्वन्ती विजहार सखीवृता ॥

3.123.9

रूपेण वयसा चैव भदनेन मदेन च ।
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥

3.123.10

तां सखीरहितामेकामेकवस्त्रामलन्कृताम् ।
ददर्श भार्गवो धमांश्चरन्तीमिव विद्युतम् ॥

3.123.11

तां पश्यमानो विजने स रेमे परमद्युतिः । क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः ।
तामाबभाषेकल्याणीं सा चास्य न शृणोति वै ॥

3.123.12

ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी । कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ।
किन्नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥

3.123.13

अक्रुद्ध्यत्स तथा विद्धे नेत्रे परममन्युमान् ।
ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥

3.123.14

ततो रुद्धे शकृन्मूत्रे सैन्यमासीत्सुदुःखितम् ।
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥

3.123.15

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः । केनापकृतमद्येह भार्गवस्य महात्मनः ।
ज्ञातं वा यदि वाऽज्ञातं तद्द्रुतं ब्रूत माचिरम् ॥

3.123.16

तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ।
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥

3.123.17

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ।
पर्यपृच्छत्सुहृद्वर्गं पर्यजानन्न चैव ते ॥

3.123.18

आनाहार्तं ततो दृष्ट्वा तत्सैन्यमनुखार्दितम् ।
पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत् ॥

3.123.19

मयाऽटन्त्येह वल्मीके दृष्टं सत्वमभिज्वलत् ।
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥

3.123.20

एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात् ।
तत्रापशय्त्तपोवृद्धं चन्द्रादित्यसमप्रभम् ॥

3.123.21

अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः ।
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥

3.123.22

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ।
अपमानादहं विद्धो ह्यनया दर्पपूर्णया ॥

3.123.23

रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् । तामेव प्रतिगृह्याहं राजन्दुहितरं तव ।
क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते ॥
लोमश उवाच ।

3.123.24

ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ।
ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥

3.123.25

प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ।
प्राप्तप्रसादौ राजा वै ससैन्यः पुरमाव्रजत् ॥

3.123.26

सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता ।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥

3.123.27

अग्नीनामतीथीनां च शुश्रूषुनसूयिका । समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc