भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 3.120

3.120.1

प्रभासतीर्थमासाद्यपाण्डवा वृष्णयस्तथा ।
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥

3.120.2

ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः ।
वृष्णयः पाण्डवाश्चैव सुहृदश्चपरस्परम् ॥
वैशम्पायन उवाच ।

3.120.3

प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः ।
वृष्णयः पाण्डवान्वीराः परिवार्योपतस्थिरे ॥

3.120.4

ततो गोक्षीरकुन्देन्दुमृणआलरजतप्रभः ।
वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥

3.120.5

न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय ।
युधिष्ठिरो यत्रजटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः ॥

3.120.6

दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति ।
धर्मादधर्मश्चरितो वरीया- नितीव मन्येत नरोऽल्पबुद्धिः ॥

3.120.7

दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुखमात्तराज्ये ।
हृतस्वराज्यायतनार्थभार्ये दुर्योधनेनाल्पधिया च पार्थे । किन्न्वत्र कर्तव्यमिति प्रजाभिः शङ्का मिथः सञ्जनिता नराणाम् ॥

3.120.8

अयं स धर्मप्रभवो नरेन्द्रो धर्मे धृतः सत्यधृतिः प्रदाता ।
चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतस्तु कथं विवर्धेत् ॥

3.120.9

कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः ।
प्रव्राज्य पार्थान्सुमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान् ॥

3.120.10

किन्नाम वक्ष्यत्यवनिप्रधानः पितृडन्समागम्य परत्र पापः ।
पुत्रेषु सम्यक्वरितं मयेति पुत्रानपापान्व्यपरोप्य राज्यात् ॥

3.120.11

नासौ धिया सम्प्रति पश्यति स्म किन्नाम कृत्वाऽहमचक्षुरेवम् ।
जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्यकौन्तेयमिति स्म राज्यात् ॥

3.120.12

नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान् ।
विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं वत पश्यति स्म ॥

3.120.13

व्यूढोत्तरांसान्पृथुलोहिताक्षा- निमाम्स्म पृच्छन्स शृणोति नूनम् ।
प्रास्थापयद्यत्स वनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम् ॥

3.120.14

योऽयं परषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात् ।
श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥

3.120.15

स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः ।
वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे ॥

3.120.16

न ह्यस् वीर्येण बलेन कश्चि- त्समः पृथिव्यामपि विद्यतेऽन्यः ।
स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात् ॥

3.120.17

प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु ।
स्वस्त्यागमद्योऽतिरथस्तरस्वी सोयं वने क्लिश्यति चीरवासाः ॥

3.120.18

यः सिन्धुकूले व्यजयन्नृदेवा- न्समागतान्दाक्षिणात्यान्महीपान् ।
तं पश्यतेमं सहदेवमद्य तरस्विनं तापसवेषरूपम् ॥

3.120.19

यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रत्नियुद्धशौण्डः ।
जिग्ये रणे तं नकुलं वनेऽस्मि- न्सम्पश्यतैनं मलदिग्धगात्रम् ॥

3.120.20

सत्रे समृद्धेऽतिरथस्य राज्ञो वेदीतलादुत्पतिता सुता या ।
सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा ॥

3.120.21

त्रिवर्गमुख्यस् समीरणस्य देवेश्वरस्याप्यथवाऽश्विनोश्च ।
एषां सुराणां तनयाः कथन्नु वने चरन्त्यस्तसुखाः सुखार्हाः ॥

3.120.22

जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते ।
दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc