भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.4

2.4.1

तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत् ।
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः ॥

2.4.2

तव विष्फारघोषेण मेघवन्निनदिष्यति ।
अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान् ॥ 2 ॥

2.4.3

इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः ।
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः ॥

2.4.4

असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः ।
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम् ॥

2.4.5

ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम् ।
एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति ॥
वैशम्पायन उवाच ।

2.4.6

इत्युक्त्वाऽलिङ्ग्य वीभत्सुं विसृष्टः प्रययौ मयः ।

2.4.7

ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः ।
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः ॥

2.4.8

साज्येन पायसेनैव मधुना मिश्रितेन च । भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः ।
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः ॥

2.4.9

मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप ।
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः ॥

2.4.10

अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ।
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान् ॥

2.4.11

ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः ।
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥

2.4.12

वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि ।
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च ॥

2.4.13

तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा ।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥

2.4.14

तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः ।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥

2.4.15

सभायामृषयस्तस्यां पाण्डवैः सह आसते ।
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥

2.4.16

असितो देवलः सत्यः सर्पिर्माली महाशिराः ।
अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥

2.4.17

बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः ।
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥

2.4.18

तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः ।
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ ॥

2.4.19

दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः ।
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः ॥

2.4.20

बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः ।
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः ॥

2.4.21

पर्वतश्च महाभागो मार्कण्डेयो महामुनिः ।
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा ॥

2.4.22

जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः ।
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥

2.4.23

काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः ।
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः ॥

2.4.24

कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च ।
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः ॥

2.4.25

एते चान्ये च बहवो वेदवेदाङ्गपारगाः ।
उपासते महात्मानं सभायामृषिसत्तमाः ॥

2.4.26

कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ॥

2.4.27

श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः । सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् ।

2.4.28

कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ।
कम्बोजराजः कमठः कम्पनश्च महाबलः ॥

2.4.29

सततं कम्पयामास यवनानेक एव यः । बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः ।
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा ॥

2.4.30

जटासुरो मद्रकानां च राजा कुन्तिः पुलिन्दश्च किरातराजः ।
तथाङ्गवाङ्गौ सहपुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण ॥

2.4.31

अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः ।
किरातराजः सुमना यवनाधिपतिस्तथा ॥

2.4.32

चाणूरो देवरातश्च भोजो भीमरथश्च यः ।
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः ॥

2.4.33

सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः ।
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः ॥

2.4.34

सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ।
अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः ॥

2.4.35

शिशुपालः सहसुतः करूपाधिपतिस्तथा ।
वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः ॥

2.4.36

आहुको विपृथुश्चैव गदः सारण एव च ।
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः ॥

2.4.37

भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान् ।
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः ॥

2.4.38

केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः । एते चान्ये च बहवः क्षत्रिया मुख्यसम्मताः ।

2.4.39

उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम् ।
अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः ॥

2.4.40

अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः । तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः ।

2.4.41

रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ।
सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः ॥

2.4.42

एते चान्ये च बहवो राजानः पृथिवीपते ।
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥

2.4.43

उपासते महात्मानमासीनं सप्तविंशतिः ।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ॥

2.4.44

गीतवादित्रकुशलाः साम्यतालविशारदाः ।
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः ॥

2.4.45

सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा ।
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः ॥

2.4.46

पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ।
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः ॥

2.4.47

दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc