भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.3

2.3.1

अथाब्रवीन्मयः पार्थमर्युनं जयतां वरम् ।
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम् ॥

2.3.2

विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव । प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम् ।
पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय ॥

2.3.3

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति ।
यियक्षमाणेषु पुरा दानवेषु मया कृतम् ॥

2.3.4

चित्रं मणिमयं भाण्डं रम्यं बिन्दुसारः प्रति ।
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः ॥

2.3.5

आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ।
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम् ॥

2.3.6

मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ।
अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन ॥

2.3.7

निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ।
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥

2.3.8

सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी ।
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥

2.3.9

वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् ।
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ॥
वैशम्पायन उवाच ।

2.3.10

इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः ।
अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति ॥

2.3.11

हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥

2.3.12

द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः ।
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना ॥

2.3.13

आहृताः क्रतवो मुख्याः शतं भरतसत्तम ।
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः ॥

2.3.14

शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ।
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः ॥

2.3.15

यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः ।
अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः ॥

2.3.16

नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः ।
उपासते यत्र परं सहस्रयुगपर्यये ॥

2.3.17

यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून् ।
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये ॥

2.3.18

सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः ।
ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥

2.3.19

तत्र गत्वा स जग्राह गदां शङ्खं च भारत । तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः ।
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ॥

2.3.20

किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम् ।
तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः ॥

2.3.21

तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम् ।
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥

2.3.22

गदां च भीमसेनाय प्रवरां प्रददौ तदा ।
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम् ॥

2.3.23

यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे ।
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च ॥

2.3.24

सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ।
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ॥

2.3.25

सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम् । तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः ।
सभा च सा महाराज शातकुम्भमयद्रुमा ॥

2.3.26

दशकिष्कुसहस्राणि समन्तादायताभवत् ।
यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा ॥

2.3.27

भ्राजमाना तथाऽत्यर्थं दधार परमं वपुः ।
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् ॥

2.3.28

प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा । नवमेघप्रतीकाशा दिवमाकृत्य विष्ठिता ।
आयता विपुला रम्या विपाप्मा विगतक्लमा ॥

2.3.29

उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा ।
बहुचित्रा बहुधना सुकृता विश्वकर्मणा ॥

2.3.30

न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी ।
सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः ॥

2.3.31

तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च ।
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ॥

2.3.32

अन्तरिक्षचरा घोरा महाकाया महाबलाः ।
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥

2.3.33

तस्यां सभायां नलिनीं चकाराप्रतिमां मयः ।
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥

2.3.34

पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् । पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः ।
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम् ॥

2.3.35

मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम् ।
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् ॥

2.3.36

मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः ।
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥

2.3.37

तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः ।
आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः ॥

2.3.38

काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः ।
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः ॥

2.3.39

जलजानां च पद्मानां स्थलजानां च सर्वशः ।
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥

2.3.40

ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः ।
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc