भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.25

2.25.1

भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् ।
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया ॥

2.25.2

नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् ।
प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव ॥

2.25.3

एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् ।
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ॥

2.25.4

यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः ।
बलं भीमं जरासन्धे दर्शयाशु तदद्य वै ॥

2.25.5

तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः ।
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते ॥

2.25.6

गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः ।
बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात् ॥

2.25.7

तदस्य मृत्युर्विहितस्त्वदृते न महाबल ।
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम् ॥
वैशम्पायन उवाच ।

2.25.8

एवमुक्तस्ततो भीमो मनसाऽचिन्त्य मारुतम् ।
जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम् ॥

2.25.9

प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः ।
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः ॥

2.25.10

भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ ।
बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च ॥

2.25.11

करे गृहीत्वा चरणं द्विधा चक्रे महाबलः ।
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ॥

2.25.12

अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः ।
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः ॥

2.25.13

भीमसेनस्य नादेन जरासन्धस्य चैव ह ।
किं नु स्याद्धिमवान्भिन्नः किन्नुस्विद्दीर्यते मही ॥

2.25.14

इति वै मागधा जज्ञुर्भीमसेनस्य निखनात् ।
ततस्तु भगवान्कृष्णो जरासन्धजिघांसया ॥

2.25.15

भीमसेनं समालोक्य नलं जग्राह पाणिना ।
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति ॥

2.25.16

ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः ।
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च ॥

2.25.17

पुनः सन्धाय तु तदा जरान्धः प्रतापवान् ।
भीमेन च समागम्य बाहुयुद्धं चकार ह ॥

2.25.18

तयोः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
सर्वलोकक्षयकरं सर्वभूतभयावहम् ॥

2.25.19

पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः ।
व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया ॥

2.25.20

भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम् ।
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह ॥

2.25.21

शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः ।
शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ ॥

2.25.22

ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम् ।
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः ॥

2.25.23

जरासन्धरथं कृष्णो योजयित्वा पताकिनम् ।
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥

2.25.24

ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः ।
राजानं चक्ररासाद्य मोक्षिता महतो भयात् ॥

2.25.25

अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः ।
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥

2.25.26

यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः ।
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः ॥

2.25.27

भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः ।
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥

2.25.28

शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये ।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा ॥

2.25.29

एवमेतौ महाबाहू तदा दुष्करकारिणौ ।
कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति ॥

2.25.30

इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः ।
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः ॥

2.25.31

तप्तचामीकराभेण किङ्किणीजालमालिना ।
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ॥

2.25.32

येन शक्रो दानवानां जघान नवतीर्नव ।
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः ॥

2.25.33

ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा ।
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥

2.25.34

हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे ।
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥

2.25.35

असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः ।
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥

2.25.36

चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् ।
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः ॥

2.25.37

व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः ।
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः ॥

2.25.38

दुर्निरीक्ष्यो हि भूतानां तेजसाऽभ्याधिकं बभौ ।
आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥

2.25.39

न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते ।
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः ॥

2.25.40

तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम् ।
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥

2.25.41

यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः ।
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम् ॥

2.25.42

स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः ।
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः ॥

2.25.43

तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा ।
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥

2.25.44

बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् ।
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः ॥

2.25.45

नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने ।
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम् ॥

2.25.46

जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् ।
राज्ञां समभ्युद्धरमं यदिदं कृतमद्य वै ॥

2.25.47

विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे ।
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन ॥

2.25.48

किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान् ।
कृतमित्येव तद्विद्वि नृपैर्ययद्यपि दुष्करम् ॥
वैशम्पायन उवाच ॥

2.25.49

तानुवाच हृम्पीकेशः समाश्चास्य महामनाः ।
यिधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति ॥

2.25.50

तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति ॥

2.25.51

ततः सुप्रीतमनसस्ते नृपा नृपसत्तम ।
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम् ॥

2.25.52

रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः ।
कृच्छ्राञ्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥

2.25.53

जरासन्धात्मजश्चैव सहदेवो महामनाः ।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ॥

2.25.54

स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः ।
सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥

2.25.55

भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा ।
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः ॥
सददेव उवाच ।

2.25.56

यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन ।
तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम ॥

2.25.57

त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो ।
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन ॥

2.25.58

त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात् ।
निर्भयो विचरिष्यामि यथाकामं यथासुखम् ॥
वैशम्पायन उवाच ।

2.25.59

एवं विज्ञाप्यमानस्य सहदेवस्य मारिष ।
प्रहृष्टो देवकीपुत्रः पाण्डवै च महारथौ ॥

2.25.60

क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन् ।
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः ॥

2.25.61

प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत ।
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा ॥

2.25.62

कालागरुसुनगन्धैश्च तैलैश्च विविधैरपि ।
घृतधाराशतैश्चैव सुमनोभिश्च भारत ॥

2.25.63

समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम् ।
उदकं तस्य चक्रेऽथ सहदेवः सहानुजः ॥

2.25.64

कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः ।
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ ॥

2.25.65

स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् ।
सहदेव उवाच ।
इमे रत्नानि भूरिणी गोजाविमहिषादयः ॥

2.25.66

हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च ।
दीयतां धर्मराजाय यथा वा मन्यते भवान् ॥
वैशम्पायन उवाच ।

2.25.67

भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा ।
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः ॥

2.25.68

मागधानां महीपालं जरासन्धात्मजं तदा ।
आददे च महार्हाणि रत्नानि पुरुषोत्तमः ॥

2.25.69

गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः ।
विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम् ॥

2.25.70

पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः ।
यथावयः समागम्य विससर्ज नराधिपान् ॥

2.25.71

विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः । आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः ।

2.25.72

एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः ।
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा ॥

2.25.73

भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा ।
रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः ॥

2.25.74

कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः ।
रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः ॥

2.25.75

इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः ।
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥

2.25.76

दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः ।
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ॥

2.25.77

दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ ।
पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥

2.25.78

ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः ।
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ॥

2.25.79

ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् ।
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ॥

2.25.80

हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत ।
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः ॥

2.25.81

मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान् ।
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः ॥

2.25.82

त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन ।
पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम ॥

2.25.83

जरासन्धवधेनैव प्राप्तास्ते विपुलाः श्रियः ॥
वैशम्पायन उवाच ।
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः ॥

2.25.84

प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम् ॥

2.25.85

प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः ।
प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः ॥

2.25.86

यथावयः समागम्य भ्रातृभिः सह पाण्डवः ।
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ॥

2.25.87

युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः ।
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥

2.25.88

एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः ।
पाण्डवैर्घातयामास जरासन्धमरिं तदा ॥

2.25.89

घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः ।
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ॥

2.25.90

सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा ।
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ॥

2.25.91

पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः । हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः ।
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम् ॥

2.25.92

तेनैव रथमुख्येन मनसस्तुल्यगामिना ।
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥

2.25.93

ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ ।
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥

2.25.94

ततो गते भगवति कृष्णे देवकिनन्दने ।
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा ॥

2.25.95

संवर्धितं यशो भूयः कर्मणा तेन भारत ।
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥

2.25.96

तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् ।
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc