भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 2.24

2.24.1

ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः ।
उवाच वाग्मी राजानं जरासन्धमधोक्षजः ॥

2.24.2

त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः ।
अस्मदन्यतमेनेह सज्जीभवतु को युधि ॥

2.24.3

एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः ।
जरासन्धस्ततो राजा भीमसेनेन मागधः ॥

2.24.4

धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः ।
अर्जुन वासुदेवं च वजर्यित्वा स मागधः ॥

2.24.5

मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह ।
आदाय रोजनां माल्यं मङ्गल्यान्यपराणि च ॥

2.24.6

धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च ।
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ॥

2.24.7

कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना ।
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन् ॥

2.24.8

अवमुच्य किरीटं स केशान्समनुमृज्य च ।
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ॥

2.24.9

उवाच मतिमान्राजा भीमं भीमपराक्रमः ।
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ॥

2.24.10

एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः ।
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः ॥

2.24.11

ततः सम्मन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली ।
भीमसेनो जरासन्धमाससाद युयुत्सया ॥

2.24.12

ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः ।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥

2.24.13

करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम् ।
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः ॥

2.24.14

स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः । अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः ।

2.24.15

चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम् ॥
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् ॥

2.24.16

बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ ।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥

2.24.17

करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव ।
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ ॥

2.24.18

तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ ।
सिंहाविव सुसन्ङ्क्रुद्धावाकृष्याकृष्य युध्यताम् ॥

2.24.19

अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि ।
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः ॥

2.24.20

उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ ।
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत् ॥

2.24.21

सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः ।
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः ॥

2.24.22

तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम् ।
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् ॥

2.24.23

तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनाः ।
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः ॥

2.24.24

शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः ।
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम् ॥

2.24.25

तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा ।
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव ॥

2.24.26

उभौ परमसंहृष्टौ बलेन बलिनां वरौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥

2.24.27

शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ ।
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव ॥

2.24.28

तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे ।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥

2.24.29

प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः ।
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः ॥

2.24.30

ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ॥

2.24.31

ततो भीमं जरासन्धो जघानोरसि मुष्टिना ।
भीमोषि तं जरासन्धं वक्षस्यभिजघान ह ॥

2.24.32

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जोतामायसैः परिघैरिव ॥

2.24.33

कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि । तदा तद्युद्धमभवद्दिनानि दश पञ्च च ।
अनाहारं दिवारात्रमविश्रान्तमवर्तत ॥

2.24.34

तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः ।
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ॥

2.24.35

तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः ।
उवाच भीमकर्माणं भीमं सम्बोधयन्निव ॥

2.24.36

क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे ।
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ॥

2.24.37

तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः ।
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥
वैशम्पायन उवाच ।

2.24.38

एवमुक्तःस कृष्णेन पाण्डवः परवीरहा ।
जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ॥

2.24.39

ततस्तमजितं जेतुं जरासन्दं वृकोदरः ।
संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc