भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.8

16.8.1

सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम ।
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर ॥

16.8.2

कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः ।
तुष्टपुष्टजनः शत्रुरर्थवानिति च स्मरेत् ॥

16.8.3

पर्युपासनकाले तु विपरीतं विधीयते ।
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः ॥

16.8.4

व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः ।
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम् ॥

16.8.5

प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् ।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥

16.8.6

उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत् ॥

16.8.7

आददीत बलं राजा मौलं मित्रबलं तथा ।
अटवीबलं भृतं चैव तता श्रेणीबलं प्रभो ॥

16.8.8

मित्रामित्रबलं राजन्न्यायाद्वृद्ध्युदये धृतः । तत्र मित्रबलं राजन्मौलं चैव विशिष्यते ।
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः ॥

16.8.9

तथाऽचारबलं चैव परस्परसमं नृप ।
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥

16.8.10

आपदश्चापि बोद्धव्या बहुरूपा नराधिप ।
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु ॥

16.8.11

विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन ।
सामादिभिरुपन्यस्य गमयेत्तान्नृपः सदा ॥

16.8.12

यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परन्तप ।
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा ॥

16.8.13

हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः ।
अकृशश्चाप्यथो यायादनृतावपि पाण्डव ॥

16.8.14

तूणाश्मानं वाजिरथप्रवाहां ध्वजद्रुमैः संवृतकूलरोधसम् ।
पदातिनागैर्बहुकर्दमां नदीं सपत्नानाशे नृपतिः प्रयोजयेत् ॥

16.8.15

अथोपपत्त्या शकटं पद्मवज्रं च भारत ।
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥

16.8.16

चारयित्वा परबलं कृत्वा स्वबलदर्शनम् ।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥

16.8.17

बलं प्रसादयेद्राजा निक्षिपेद्बलनो नरान् ।
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत् ॥

16.8.18

सर्वथैव महाराज शरीरं धारयेदिह ।
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम् ॥

16.8.19

एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणु ते नृप ।
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेणि पालयन् ॥

16.8.20

एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै ।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि ॥

16.8.21

भीष्मेण सर्वमुक्तोसि कृष्णेन विदुरेण च ।
मयाऽप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥

16.8.22

एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण ।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥

16.8.23

अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः ।
पालयेद्वाऽपि धर्मेणि प्रजास्तुल्यं फलं लभेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc