भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.7

16.7.1

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा ।
उदासीनगुणानां च मध्यस्थानां च भारत ॥

16.7.2

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् ।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥

16.7.3

अथ नानाजनपदा दुर्गाणि विविधानि च ।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम् ॥

16.7.4

ते च द्वादश कौन्तेय राजानो विविधात्मकाः ।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥

16.7.5

एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः ।
अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत् ॥

16.7.6

वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम ।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः ॥

16.7.7

यथा स्वपक्षो बलवान्परपक्षस्तथा बलः ।
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ॥

16.7.8

यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः ।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत् ॥

16.7.9

द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा ।
यदा समर्था यानाय नचिरेणैव भारत ॥

16.7.10

तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत् ।
भूमिरल्पफला देया विपरीतस्य भारत ॥

16.7.11

हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत् ।
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः ॥

16.7.12

सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ ।
विपरीतं न तच्छ्रेयः पुत्र कस्याञ्चिदापदि ॥

16.7.13

तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत् ॥

16.7.14

क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम् ।
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च ॥

16.7.15

कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम् ।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता ॥

16.7.16

कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः ।
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः ॥

16.7.17

साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा । आत्मसात्करणे नित्यं पालनानि गृहे तथा ।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा ॥

16.7.18

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः । यद्येनमभियायाच्च बलवान्दुर्बल नृपः ।

16.7.19

सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः ।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः ॥

16.7.20

कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः । असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत् ।
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc