भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.4

16.4.1

न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप ।
दिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥

16.4.2

गृहे वसन्तं दुःखार्तमुपवासकृशं भृशम् ।
यताहारं क्षितिशयं नाविदं भ्रातृभिः सह ॥

16.4.3

अहोस्मि वञ्चितो मूढो भवता गूढबुद्धिना ।
विस्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथा ॥

16.4.4

किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा ।
यस्य मे त्वं महीपाल दुखान्येतान्यवाप्तवान् ॥

16.4.5

पीडितं चापि जानामि राज्यमात्मानमेव च ।
अनेन वचसा तेऽद्य दुःखितस्य जनेश्वरः ॥

16.4.6

भवान्पिता भवान्माता भवान्नः परमो गुरुः ।
भवता विप्रहीणा वै क्वनु तिष्ठामहे वयम् ॥

16.4.7

औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम ।
अस्तु राजा महाराज यमन्यं मन्यते भवान् ॥

16.4.8

अहं वनं गमिष्यामि भवान्राजा प्रशास्त्विदम् ।
नमामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ॥

16.4.9

नाहं राजा भवान्राजा भवता परवानहम् ।
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥

16.4.10

न मन्युर्हृदि नः कश्चित्सुयोधनकृतेऽनघ ।
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः ॥

16.4.11

वयं पुत्रा हि भवोत यथा दुर्योधनादयः ।
गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥

16.4.12

स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि ।
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे ॥

16.4.13

इयं हि वसुसम्पूर्णा मही सागरमेखला ।
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ॥

16.4.14

भवदीयमिदं सर्वं शिरसा त्वां प्रसादये ।
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥

16.4.15

भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप ।
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरं ॥
धृतराष्ट्र उवाच ।

16.4.16

तापस्ये मे मनस्तात वर्तते कुरुनन्दन ।
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो ॥

16.4.17

चिरमध्युषितः पुत्र चिरं शुश्रूषितस्त्वया ।
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप ॥
वैशम्पायन उवाच ।

16.4.18

इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम् ।
उवाच विदुरं राजा धृतराष्ट्रोंऽबिकासुतः ॥

16.4.19

सञ्जयं च महात्मानं कृपं चापि महारथम् ।
अनुनेतुमिहेच्छामि भवद्भिर्वसुधाधिपम् ॥

16.4.20

म्लायते मे मनो हीदं मुखं च परिशुष्यति ।
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह ॥

16.4.21

इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः ।
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ॥

16.4.22

तं तु दृष्ट्वा समासीनं विसञ्ज्ञमिव कौरवम् ।
आर्तिं राजाऽगमत्तीव्रां कौन्तेयः परवीरहा ॥
युधिष्ठिर उवाच ।

16.4.23

यस्य नागसहस्रेण शतसङ्ख्येन वै बलम् ।
सोयं नारीं व्यपाश्रित्य शेते राजा गतासुवत् ॥

16.4.24

आयसी प्रतिमा येन भीमसेनस्य सा पुरा ।
चूर्णीकृता बलवता सोबलामाश्रितः स्त्रियम् ॥

16.4.25

धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् ।
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥

16.4.26

अहमप्युपवत्स्यामि यथैवायं गुरुर्मम ।
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥
वैशम्पायन उवाच ।

16.4.27

ततोस्य पाणिना राजञ्जलशीतेन पाण्डवः ।
उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥

16.4.28

तेन रत्नौषधिमता पुण्येन च सुगन्धिना ।
पाणिस्पर्शेन राज्ञः स राजा सञ्ज्ञामवाप ह ॥

16.4.29

स्पृशन्तं पाणिना भूयः परिष्यज्य च पाण्डवम् । उवाच राजा धर्मज्ञो धृतराष्ट्रः शुभं वचः ॥

16.4.30

जीवामीवातिसंस्पर्शात्तव राजीवलोचन । मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप ।
पाणिभ्यां हि परिस्प्रष्टुं प्राणानां हितमात्मनि ॥

16.4.31

अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे ।
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम् ॥

16.4.32

व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता ।
ततो ग्लानमनास्तान नष्टसञ्ज्ञ इवाभवम् ॥

16.4.33

तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो ।
लब्ध्वा सञ्जीवितोस्मीति मन्ये कुरुकुलोद्वह ॥
वैशम्पायन उवाच ।

16.4.34

एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत ।
पस्पर्श सर्वगात्रेषु स्नेहार्द्रस्तं शनैस्तदा ॥

16.4.35

उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः ।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् ॥

16.4.36

विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् ।
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम् ॥

16.4.37

गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् ।
दुःखान्यधारयद्राजन्मैवमित्येव चाब्रवीत् ॥

16.4.38

इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदःखिताः ।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन् ॥

16.4.39

अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् ।
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ ॥

16.4.40

ग्लायते मे मनस्तात भूयोभूयः प्रजल्पतः ।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ॥

16.4.41

तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् ।
सर्वेषामवरोधानामार्तनादो महानभूत् ॥

16.4.42

दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् ॥
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥

16.4.43

धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम् ।
शोकजं बाष्पमुत्सृज्यि पुनर्वचनमब्रवीत् ॥

16.4.44

न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा ।
यथा तव प्रियं राजंश्चिकीर्षामि परन्तप ॥

16.4.45

यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा ।
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम् ॥

16.4.46

ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम् ।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥

16.4.47

इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् ।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्योत्य वचोऽब्रवीत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc