भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.5

16.5.1

युधिष्ठिर महाबाहो ********** कुरुनन्दनः ।
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन् ॥

16.5.2

अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः ।
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥

16.5.3

गान्धारी च महाभागा प्राज्ञा करुणवेदिनी ।
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥

16.5.4

अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः ।
अनुज्ञां लभतां राजा मां वृथेह मरिष्यति ॥

16.5.5

स्वस्थो भवत्वयं धीमान्वनेषु मधुगन्धिषु । राजर्षीणां पुराणानामनुयातु गतिं नृपः । राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ॥
वैशम्पायन उवाच ।

16.5.6

इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा ।
प्रत्युवाच महातेजा धर्मराजो महामुनिम् ॥

16.5.7

भगवानेव नो मान्यो भगवानेव नो गुरुः ।
भगवानस्य राज्यस्य कुलस्य च परायणम् ॥

16.5.8

अहं तु पुत्रो भगवन्पिता राजा गुरुश्च मे ।
निदेशवती च पितुः पुत्रो भवति धर्मतः ॥
वैशम्पायन उवाच ।

16.5.9

इत्युक्तः स तु तं प्राह व्यासो वेदविदांवरः ।
युधिष्ठिरं महातेजाः पुनरेव महाकविः ॥

16.5.10

एवमेतन्महाभाग यथा वदसिं भारत ।
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥

16.5.11

सोयं मयाऽभ्यनुज्ञातस्त्वथा च पृथिवीपतिः ।
करोतु स्वमभिप्रायं मा स्म विघ्नकरो भव ॥

16.5.12

एष एव परो धर्मो राजर्षीणां युधिष्ठिर ।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥

16.5.13

पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता ।
शिष्यभूतेन राजाऽयं गुरुवत्पर्युपासितः ॥

16.5.14

क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः ।
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः ॥

16.5.15

पुत्रसंस्यं च विपुलं राज्यं विप्रोषिते त्वयि ।
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥

16.5.16

त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ ।
आराधितः स भृत्येन गान्धारी च यशस्विनी ॥

16.5.17

अनुजानीहि पितरं समयोऽस्म तपोविधौ ।
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥
वैशम्पायन उवाच ।

16.5.18

एतावदुक्त्वा वचनमनुमान्य च पार्थिवम् ।
तथाऽस्त्विति च तेनोक्तः कौतेयेन ययौ वनम् ॥

16.5.19

गते भगवति व्यासे राजा पाण्डुसुतस्तदा ।
प्रोवाच पितरं वृद्धं मन्दम्मन्दमिवानतः ॥

16.5.20

यदाह भगवान्व्यासो यच्चापि भवतो मतम् ।
यथाऽह च महेष्वासः कृपो विदुर एव च ॥

16.5.21

युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा ।
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः ॥

16.5.22

इदं तु याचे नृपते त्वामहं शिरसा नतः ।
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc