भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.25

16.25.1

आज्ञापयामास ततः सेनां भरतसत्तमः ।
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ॥

16.25.2

योगोयोग इति प्रीत्या ततः शब्दो महानभूत् ।
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ॥

16.25.3

केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः ।
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः ॥

16.25.4

गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप ।
पदातयस्तथैवान्ये नखरप्रासयोधिनः ॥

16.25.5

पौरजानपदाश्चैव यानैर्बहुविधैस्तथा ।
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदक्षवः ॥

16.25.6

स चापि राजवचनादाचार्यो गौतमः कृपः ।
सेनामादाय सेनानीः प्रययावाश्रमं प्रति ॥

16.25.7

ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः ।
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ॥

16.25.8

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
रतानीकेन महता निर्जगाम कुरूद्वहः ॥

16.25.9

गजैश्चाचलसन्काशैर्भीमकर्मा वृकोदरः ।
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः ॥

16.25.10

माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ ।
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ ॥

16.25.11

अर्जुनश्च महातेजा रथेनादित्यवर्चसा ।
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम् ॥

16.25.12

द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः ।
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु ॥

16.25.13

समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम् ।
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ॥

16.25.14

नदीतीरेषु रम्येषु सरःसु च विशाम्पते ।
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः ॥

16.25.15

युयुत्सुश्च महातेजा धौम्यश्चैवि पुरोहितः ।
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ॥

16.25.16

ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् ।
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम् ॥

16.25.17

स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः ।
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ॥

16.25.18

ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा ।
विवेश सुमहानादैरापूर्य भरतर्षभ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc