भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.24

16.24.1

एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः ।
स्मरन्तो मातरं वीरा बभूवुर्भशदुःखिताः ॥

16.24.2

ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् ।
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ॥

16.24.3

प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन ।
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् ॥

16.24.4

ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः ।
शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन् ॥

16.24.5

अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः ।
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा ॥

16.24.6

कथं च स महीपालो हतपुत्रो निराश्रयः ।
पत्न्या सह वसत्येको वने श्वापदसेविते ॥

16.24.7

सा च देवी महाभागा गान्धारी हतबान्धवा ।
पतिमन्धं कथं वृद्धमन्वेति विजने वने ॥

16.24.8

एवं तेषां कथयतामौत्सुक्यमभवत्तदा ।
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ॥

16.24.9

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् । अहो मे भवतो दृष्टं हृदयं गमनं प्रति ।

16.24.10

न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा ।
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ॥

16.24.11

दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् ।
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ॥

16.24.12

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् ।
कदानुजननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ॥

16.24.13

अनित्याः खलु मर्त्यानां गतयो भरतर्षभ ।
कुन्ती राजसुता यत्र वसत्यसुखिता वने ॥

16.24.14

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा । उवाच देवी राजानमभिपूज्याभिनन्द्य च ।

16.24.15

कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा ।
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप ॥

16.24.16

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः ।
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ॥

16.24.17

अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् ।
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वसुरस्च च ॥

16.24.18

इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ ।
सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह ॥

16.24.19

निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् ।
द्रक्ष्यामि वनसंस्थं च धृताष्ट्रं महीपतिम् ॥

16.24.20

स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे ।
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ॥

16.24.21

शकटापणवेशाश्च कोशः शिल्पिन एव च ।
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ॥

16.24.22

यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् ।
अनावृतः सुविहितः स च यातु सुरक्षितः ॥

16.24.23

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् ।
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ॥

16.24.24

प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम् । क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च ।

16.24.25

एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः ।
श्वोभूते निर्ययौ राजन्सस्त्रीवृद्धपुरःसरः ॥

16.24.26

स बहिर्दिवसानेव जनौघं परिपालयन् ।
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc