भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.23

16.23.1

वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः ।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः ॥

16.23.2

तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् ।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥

16.23.3

कथं न राजा वृद्धः स वने वसति निर्जने ।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥

16.23.4

सुखार्हः स हि राजर्षिरसुखी तद्वनं महत् ।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः ॥

16.23.5

सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा ।
राज्यश्रियं परित्यज्य वनं सा समरोचयत् ॥

16.23.6

विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान् ।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥

16.23.7

आकुमारं च पौरास्ते चिन्ताशोकसमाहताः ।
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम् ॥

16.23.8

पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः ।
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥

16.23.9

तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम् ।
गान्धारीं च महाभागां विदुरं च महामतिम् ॥

16.23.10

नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा ।
न राज्ये न च नारीषु न वेदाध्ययनेषु च ॥

16.23.11

परं निर्वेदमगमंश्चिन्तयन्ता नराधिपम् ।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः ॥

16.23.12

अभिमन्योश्च बालस्य विनाशं रणमूर्धनि ।
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः ॥

16.23.13

तथैव द्रौपदेयानामन्येषां सुहृदामपि ।
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥

16.23.14

हतप्रवीरां पृथिवीं हृतरत्नां च भारत ।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे ॥

16.23.15

द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी ।
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥

16.23.16

वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम् ।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc