भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.20

16.20.1

ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते ।
निवासमकरोद्राजा विदुरस्य मते स्थितः ॥

16.20.2

तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः ।
क्षत्रविट्शूद्रसङ्खाश्च बहवो भरतर्षभ ॥

16.20.3

स तैः परिवृतो राजा कथाभिः परिनन्द्य तान् ।
अनुजज्ञे स शिष्यान्वै विधिवत्प्रतिपूज्य च ॥

16.20.4

सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च ।
चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥

16.20.5

ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत ।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥

16.20.6

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा ।
गान्धारीं च पृथा राजन्गङ्गातीर्थमुपानयत् ॥

16.20.7

राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः ।
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः ॥

16.20.8

ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः ।
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः ॥

16.20.9

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः ।
आससादाथ राजर्षिं शतयूपं मनीषिणम् ॥

16.20.10

स हि राजा महानासीत्केकयेषु परम्पतः ।
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥

16.20.11

तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति ।
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥

16.20.12

स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः ।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥

16.20.13

तस्मै सर्वं विधिं राज्ञे राजाऽचख्यौ महामतिः ।
आरण्यकं महाराज व्यासस्यानुमते तदा ॥

16.20.14

एवं च तपसा राजन्धृतराष्ट्रो महामनाः ।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥

16.20.15

तथैव देवी गान्धारी वल्कलाजिनधारिणी ।
कुन्त्या सह महाराजि समानव्रतचारिणी ॥

16.20.16

कर्मणा मनसा वाचा चक्षुषा चैव ते नृप ।
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः ॥

16.20.17

त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः ।
स पार्तिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतमोहः ॥

16.20.18

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससञ्जयस्तं नृपतिं सदारम् ।
उपाचरद्धोरतपोर्जितात्मा तदा कृशो वल्कलचीरवासाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc