भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.19

16.19.1

कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।
व्रीडिताः सन्न्यवर्तन्त पाञ्चाल्या सह भारत ॥

16.19.2

ततः शब्दो महानेव सर्वेषामभवत्तदा ।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम् ॥

16.19.3

प्रदक्षिणमथावृत्त्य राजानं पाण्डवास्तदा ।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥

16.19.4

ततोऽब्रवीन्महातेजा धृतराष्ट्रोंऽबिकासुतः ।
गान्धारीं विदुरं चैव समाभाष्यावगृह्य च ॥

16.19.5

युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥

16.19.6

पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।
काऽनुगच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥

16.19.7

राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत् ।
अनया शक्यमेवाद्य श्रूयतां च वचो मम ॥

16.19.8

गान्धारि परितुष्टोस्मि वध्वाः शुश्रूषणेन वै ।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥

16.19.9

इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥

16.19.10

न च सा वनवासाय देवी कृतमतिं तदा ।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥

16.19.11

तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥

16.19.12

उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च ।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥

16.19.13

पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः ।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥

16.19.14

तदहृष्टमनानन्दं गतोत्सवमिवाभवत् ।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥

16.19.15

सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥

16.19.16

धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥

16.19.17

प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः । व्यराजन्त द्विजश्रेष्ठैस्तत्रतत्र तपोवने ।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥

16.19.18

स राजाऽग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥

16.19.19

विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः ।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥

16.19.20

गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम् ।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥

16.19.21

तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥

16.19.22

प्राधीतद्विजमुख्या सा सम्प्रज्वलितपावका ।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी ॥

16.19.23

ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः । हुत्वाऽग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥

16.19.24

स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।
शोचतां वदतां चापि पौरजानपदैर्जनैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc