भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.2

16.2.1

एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः ।
विजहार यथापूर्वमृषिभिः पर्युपस्थितः ॥

16.2.2

ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः ।
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥

16.2.3

आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः । उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ।
मया चैव भवद्भिश्च मान्य एष नराधिपः ॥

16.2.4

निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत् ।
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः ॥

16.2.5

परिवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि ।
ददौ च राजा वित्तानि यावदस्य चिकीर्षितम् ॥

16.2.6

ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः ।
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः ॥

16.2.7

धर्मिराजश्च भीमश्च सव्यसाची यमावपि ।
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥

16.2.8

कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः ।
शोकमस्मत्कृतं प्राप्यि न म्रियेतेति चिन्त्य ते ॥

16.2.9

यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम् ।
तावत्सुखमवाप्नोति भोगांश्चैव व्यवस्थितान् ॥

16.2.10

ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः ।
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥

16.2.11

धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थितान् ।
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत ॥

16.2.12

गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः ।
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा ॥

16.2.13

एवं धर्मभृतांश्रेष्ठो धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितो धीमान्पूजयामासं तं नृपम् ॥

16.2.14

स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः ।
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने ॥

16.2.15

वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु ।
प्रीतिमानभवद्राजा धृतराष्ट्रोंऽबिकासुतिः ॥

16.2.16

सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् ।
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥

16.2.17

प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः ।
वैचित्रवीर्य नृपतौ समाचरत सर्वदा ॥

16.2.18

यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः ।
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी ॥

16.2.19

तं स राजा महाराज पाण्डवानां धुरन्धरः ।
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥

16.2.20

तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः ।
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम् ॥

16.2.21

सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः ।
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥

16.2.22

ब्राह्मणान्स्वस्तिवाच्याथ हुत्वा चैव हुताशनम् ।
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः ॥

16.2.23

न तां प्रीतिं परामाप पुत्रेभ्यः स तदा पुरा । यां प्रीतिं पाण्डुपुत्रेभ्यः सदाऽवाप नराधिपः ।

16.2.24

ब्राह्मणानां यथा वृत्तः क्षत्रियाणां यथाविधः ।
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा ॥

16.2.25

यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम् ।
अकृत्वा हृदि तत्पापं तं नृपं सोन्ववर्तत ॥

16.2.26

यः कश्चिदपि यत्किञ्चित्प्रमादादम्बिकासुते ।
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥

16.2.27

न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै ।
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः ॥

16.2.28

धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा ।
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः ॥

16.2.29

अन्ववर्तत भीमोपि निश्चितो धर्मजं नृपम् ।
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः ॥

16.2.30

राजानमनुवर्तन्त धर्मपुत्रममित्रहा ।
अन्ववर्तत सन्क्रुद्धो हृदयेन पराङ्मुखः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc