भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.1

16.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।

16.1.1

प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः ।
कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥

16.1.2

स तु राजा हतामात्यो हतपुत्रो निराश्रयः ।
कथमासीद्धतैश्वर्यो गान्धारी च तपस्विनी ॥

16.1.3

कियन्तं चैव कालं ते मम पूर्वपितामहाः ।
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥
वैशम्पायन उवाच ।

16.1.4

प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः ।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥

16.1.5

धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा ।
वैश्यापुत्रश्च मेधावी युयुत्सुः कुरुसत्तम ॥

16.1.6

पाण्डवाः सर्वकार्येषु पर्यपृच्चन्त तं नृपम् ।
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥

16.1.7

सदाऽभिगम्य ते वीराः पर्युपासन्त तं नृपम् ।
पादाभिवादनं कृत्वा धर्मिराजमते स्थिताः ॥

16.1.8

ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ।
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत ॥

16.1.9

द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ।
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥

16.1.10

शयनानि महार्हाणि वासांस्याभरणानि च ।
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ॥

16.1.11

युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ।
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत ॥

16.1.12

विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरव ।
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥

16.1.13

श्यालो द्रोणस्य यश्चासीद्दयितो ब्राह्ममो महान् ।
स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥

16.1.14

व्यासश्च भगवान्नित्यमासाञ्चक्रे नृपेण ह ।
कथाः कुर्वन्पुराणर्षिर्देवर्षिपितृरक्षसाम् ॥

16.1.15

धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च ।
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥

16.1.16

सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि ।
प्राप्यन्तेऽर्थेः सुलघुभिः सुनयाद्विदुरस्य वै ॥

16.1.17

अकरोद्बन्धमोक्षं च वध्यानां मोक्षणं तथा ।
न च धर्मसुतो राजा कदाचित्किञ्चिदब्रवीत् ॥

16.1.18

विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः ।
सर्वान्कामानुपस्थाप्य धृतराष्ट्रे न्यवेदयत् ॥

16.1.19

आरालिकाः सूपकारा रागषाडविकास्तथा ।
उपातिष्ठन्त राजानं धृतराष्ट्रं यथापुरम् ॥

16.1.20

वासांसि च महार्हाणि माल्यानि विविधानि च ।
उपाजह्रुर्यथाकालं धृतराष्ट्रस्य पाण्डवाः ॥

16.1.21

मैरेयमधुमांसानि पानकानि लघूनि च ।
चित्रान्भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा ॥

16.1.22

ये चापि पृथिवीपालाः समाजग्मुस्ततस्ततः ।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथापुरा ॥

16.1.23

कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी ।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥

16.1.24

धृष्टकेतोश्च भगिनी जरासन्धसुता तथा । एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ ।
किन्कराः पर्युपातिष्ठन्सर्वाः सुबलजां तथा ॥

16.1.25

यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात् ।
इति तानन्वशाद्भातॄन्नित्यमेव युधिष्ठिरः ॥

16.1.26

एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् ।
सविशेषमवर्तन्ति भीममेकं तदा विना ॥

16.1.27

न हि तत्तस्य वीरस्य हृदयादपसर्पति ।
धृतराष्ट्रस्य दुर्बुद्ध्या यद्वृत्तं द्यूतमण्डले ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc