भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.18

16.18.1

एवमेतन्महाबाहो यथा वदसि पाण्डवः ।
कृतमुद्धरणं पूर्वं मया वः सीदतां नृपाः ॥

16.18.2

द्यूतापहृतराज्यानां पतितानां सुखादपि ।
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया ॥

16.18.3

कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः ।
यशश्च वो न नश्येत इति चोद्धरणं कृतम् ॥

16.18.4

यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः ।
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥

16.18.5

कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः ।
पुनर्वने न दुःखी स्या इति चोद्धरणं कृतम् ॥

16.18.6

नागायुतसमप्राणः ख्यातविक्रमपौरुषः ।
नायं भीमोत्ययं गच्छेदिति चोद्धरणं कृतम् ॥

16.18.7

भीमसेनादवरजस्तथाऽयं वासवोपमः ।
विजयो नावसीदेत इति चोद्धरणं कृतम् ॥

16.18.8

नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ ।
क्षुधा कथं न सीदेतामिति चोद्धरणं कृतम् ॥

16.18.9

इयं च बृहती श्यामा तथाऽत्यायतलोचना ।
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतं ॥

16.18.10

अपेक्षतामेव वो भीम वेपन्तीं कदलीमिव ।
स्त्रीधर्मिणीमरिष्टाङ्गीं तथा द्यूतपराजिताम् ॥

16.18.11

दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत ।
तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥

16.18.12

निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः ।
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा ॥

16.18.13

केशपक्षे परामृष्टा पापेन् हतबुद्धिना ।
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः ॥

16.18.14

युष्मत्तेजोविवृद्ध्यर्तं मया ह्युद्धरणं कृतम् ।
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः ॥

16.18.15

कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम ।
पाण्डोरिति मया पुत्रस्तस्मादुद्धरणं कृतम् ॥

16.18.16

न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव ।
लभ्ते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति ॥

16.18.17

भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा ।
महादानानि दत्तानि पीतः सोमो यथाविधि ॥

16.18.18

नाहमात्मफलार्थं वै वासुदेवमचूचुदम् ।
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम् ॥

16.18.19

नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम् ।
पतिलोकानहं पुण्यान्कामये तपसा पिभो ॥

16.18.20

श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः ।
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ॥

16.18.21

निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह ।
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc