भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 16.17

16.17.1

ततः प्रासादहर्म्येषु वसुधायां च पार्थिव ।
नारीणां च नराणां च निःस्वनः सुमहानभूत् ॥

16.17.2

स राजा राजमार्गेण नृनारीसन्कुलेन च ।
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥

16.17.3

स वर्धमानद्वारेणि निर्ययौ गजसाह्वयात् ।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥

16.17.4

वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः ।
सञ्जयश्च महामात्रः सूतो गावल्गणिस्तथा ॥

16.17.5

ककृपं निवर्तयामास युयुत्सुं च महारथम् ।
धृताराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे ॥

16.17.6

निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा ।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह ॥

16.17.7

सोब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ ॥
अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥

16.17.8

वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि ।
राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः ॥

16.17.9

इत्युक्ता धर्मराजेनि बाष्पव्याकुललोचना ।
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह ॥
कुन्त्युवाच ।

16.17.10

सहदेवे महाराज माऽप्रसादं कृथाः क्वचित् ।
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा ॥

16.17.11

कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् ।
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥

16.17.12

आयसं हृदयं नूनं मन्दाया मम पुत्रक ।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥

16.17.13

एवं गते तु किं शक्यं मया कर्तुमरिन्दम ।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ॥

16.17.14

तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ।
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन ॥

16.17.15

द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ।
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह ॥

16.17.16

समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता । श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् ।
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥
वैशम्पायन उवाच ।

16.17.17

एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी ।
विषादमगमद्धीमान्न च किञ्चिदुवाच ह ॥

16.17.18

मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः ।
उवाच मतारं दीनश्चिन्ताशोकपरायणः ॥

16.17.19

किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि ।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥

16.17.20

व्यचोदयः पुराऽस्माकमुत्साहं शुभदर्शने ।
विदुलाया वचोभिस्त्वं नास्मान्सन्त्यक्तुमर्हसि ॥

16.17.21

निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया ।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥

16.17.22

क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया ।
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि ॥

16.17.23

अस्मानुत्सृज्य राज्यं च स्नुषाहीना यशस्विनि ।
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे ॥

16.17.24

इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती ।
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥

16.17.25

यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् ।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥

16.17.26

किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् ।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥

16.17.27

वनाच्चापि किमानीता भवत्या बालका वयम् ।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥

16.17.28

प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि ।
श्रियं यौधिष्ठिरीं मातर्भुङ्क्ष्व पार्थबलार्जिताम् ॥

16.17.29

इति सा निश्चितैवाशु वनवासकृततक्षणा ।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥

16.17.30

द्रौपदी चान्वयाच्छ्वश्रूं विषष्णवदना तदा ।
वनवासाय गच्छन्तीं रुदती भद्रया सह ॥

16.17.31

सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती ।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥

16.17.32

अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तथा ।
ततः प्रमृज्य साऽश्रूणि पुत्रान्वचनमब्रवीत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc