भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.95

14.95.1

कोसौ नकुलरूपेण शिरसा काञ्चनेन वै ।
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥
वैशम्पायन उवाच ।

14.95.2

एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् ।
श्रूयतां नकुलो योसौ यथा वाक्तस्य मानुषी ॥

14.95.3

श्राद्धं सन्कल्पयामास जमदग्निः पुरा किल ।
होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम् ॥

14.95.4

तत्पयः स्थपयामास नवे भाण्डे दृढे शुचौ ।
क्रोधो नकुलरूपेण पिठरं पर्यकर्षयत् ॥

14.95.5

जिज्ञासुस्तमृषिश्रेष्टं किं कुर्याद्विप्रिये कृते ।
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥

14.95.6

तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह ।
स तु क्रोधस्ततो राजन्ब्राह्मणीं मूर्तिमास्थितः ॥

14.95.7

जितोस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः ।
लोके मिथ्याप्रवादोयं यत्त्वयाऽस्मि विनिर्जितः ॥

14.95.8

वशे स्थितोऽहं त्वय्यह्य क्षमावति महात्मनि ।
बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो ॥
जमदग्निरुवाच ।

14.95.9

साक्षाद्दृष्टोसि मे क्रध गच्छ त्वं विगतज्वरः ।
न त्वयापकृतं मेऽद्य न च मे मन्युरस्ति वै ॥

14.95.10

यान्समुद्दिश्य सन्कल्पः पयसोस्य कृतो मया ।
पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम् ॥

14.95.11

इत्युक्तो जातसन्त्रासस्तत्रैवान्तरधीयत ।
पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः ॥

14.95.12

स तान्प्रसादयामास शापस्यान्तो भवेदिति ।
तैश्चाप्युक्तः क्षिपन्धर्मं सापस्यान्तमवाप्स्यति ॥

14.95.13

तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च ।
जुगुप्समानो धावन्स तं यज्ञं समुपासदत् ॥

14.95.14

धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः ।
मुक्तः सापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥

14.95.15

एवमेतत्तदा वृत्तं यज्ञे तस्य महात्मनः । पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा । ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc