भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.94

14.94.1

धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥

14.94.2

तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् ।
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम् ॥

14.94.3

कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् ।
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥
वैशम्पायन उवाच ।

14.94.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अगस्त्यस्य महायज्ञे पुरावृत्तमरिन्दम ॥

14.94.5

पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् ।
प्रविवेश महाराज सर्वभूतहिते रतः ॥

14.94.6

तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः ।
मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः ॥

14.94.7

परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च ।
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥

14.94.8

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः ।
दमे स्थिताश्च सर्वे ते हिंसादम्भविवर्जिताः ॥

14.94.9

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः ।
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः ॥

14.94.10

यथाशक्त्या भगवता तदन्नं समुपार्जितम् ।
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत् ॥

14.94.11

तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः । एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे ।
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥

14.94.12

ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः ।
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥

14.94.13

अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः ।
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥

14.94.14

सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् ।
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥

14.94.15

एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः ।
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥

14.94.16

इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् ।
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन् ॥

14.94.17

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥

14.94.18

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः ॥

14.94.19

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः ॥

14.94.20

बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः ।
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति ॥

14.94.21

नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन ।
वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति ॥

14.94.22

अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः ।
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥

14.94.23

यो यदाहारजातश्च स तथैव भविष्यति ।
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥

14.94.24

अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् ।
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम् ॥

14.94.25

दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः ।
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम् ॥

14.94.26

उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते ।
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु ॥

14.94.27

स्वर्गः स्वर्गसदश्चैवक धर्मश्च स्वयमेव तु । इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः ।
तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः ॥

14.94.28

ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम् ।
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥

14.94.29

प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम् ।
तैरेव यज्ञैस्तुष्टाः स्य न्यायेनेच्छामहे वयम् ॥

14.94.30

यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे । तयोस्सन्धर्षितैर्यज्ञैर्नान्यतो मृगयामहे ॥

14.94.31

न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम् ।
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥

14.94.32

न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् ।
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥

14.94.33

भवतः सम्यगिष्टा तु बुद्धिर्हिसाविवर्जिता ।
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥

14.94.34

प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम ।
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥

14.94.35

तथा कथयतां तेषां देवराजः पुरन्दरः ।
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥

14.94.36

आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः ।
निकामवर्षी पर्जन्यो बभूव जनमेजय ॥

14.94.37

प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः ।
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥

14.94.38

ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् ।
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc