भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.86

14.86.1

न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् । तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः ।
श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमनाऽभवत् ॥

14.86.2

विजयस्य च तत्कर्म गान्धारविषये तदा ।
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत्तदा ॥

14.86.3

एतस्मिन्नेव काले तु द्वादशीं माघमासिकीम् ।
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः ॥

14.86.4

समानीय महातेजाः सर्वान्भ्रातॄन्महीपतिः ।
भीमं च नकुलं चैव सहदेवं च कौरव ॥

14.86.5

प्रोवाचेदं वचः काले तदा धर्मभृतांवरः ।
आमन्त्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम् ॥

14.86.6

आयाति भीमसेनासौ सहाश्वेन तवानुजः ।
यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः ॥

14.86.7

उपस्थितश्च कालोऽयमभितो वर्तते हयः ।
माघी च पौर्णमासीयं मासः शेषो वृकोदर ॥

14.86.8

तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः ।
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥

14.86.9

इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् ।
हृष्टः श्रुत्वा गुडोकेशमायान्तं पुरुषर्षभम् ॥

14.86.10

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह ।
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥

14.86.11

तं ससालचयं श्रीमत्सप्रतोलीसुघट्टितम् ।
मापयामास कौरव्यो यज्ञवाटं यताविधि ॥

14.86.12

प्रासादशतसम्बन्धं मणिप्रवरकुट्टिमम् । सदः स पत्नीसदनं साग्नीध्रमपि चोत्तरम् ।
कारयामास विदिवद्धेमरत्नविभूषितम् ॥

14.86.13

स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च ।
यज्ञायतनदेशेशु दत्त्वा शुद्धं च काञ्चनम् ॥

14.86.14

अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम् ।
कारयामास धर्मात्मा तत्रतत्र यथाविधि ॥

14.86.15

ब्राह्मणानां न वेश्मानि नानादेशसमीयुषाम् ।
कारयामास कौन्तेयो विधिवत्तान्यनेकशः ॥

14.86.16

तथा सम्प्रेषयामास दूतान्नृपतिशासनात् ।
भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम् ॥

14.86.17

ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम ।
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥

14.86.18

तेषां निर्विशतां तेषु शिबिरेषु महात्मनाम् ।
नर्दतः सागरस्येव दिवस्पृगभवत्स्वनः ॥

14.86.19

प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत् ॥

14.86.20

तेषामभ्यागतानां च स राजा कुरुवर्धनः ।
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः ॥

14.86.21

वाहनानां च विविधाः शालाः शालीक्षुगोरसैः ।
उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट् ॥

14.86.22

वर्णाः पृथक्सन्निविष्टा ह्युत्तरोत्तरपूजिताः । तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः ।
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः ॥

14.86.23

ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते ।
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥

14.86.24

सर्वांश्च ताननुययौ यावदावसथान्प्रति ।
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥

14.86.25

ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा ।
कृत्स्नं यज्ञविधिं राजन्धर्मराजे न्यवेदयन ॥

14.86.26

तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः ।
हृष्टरूपोऽभवद्राजन्सह भ्रातृभिरादृतः ॥

14.86.27

तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः ।
हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥

14.86.28

ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् ।
देवेन्द्रस्येव विहितं भीमसेनेन भारत ॥

14.86.29

ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते ।
शय्यासनविहारांश्च सुबहून्रत्नसञ्चयान् ॥

14.86.30

घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् ।
न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः ॥

14.86.31

यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् ।
उपक्लृप्तान्यथाकालं विधिवद्भूरिवर्चसः ॥

14.86.32

स्थलजाक जलजा ये च पशवः केचन प्रभो ।
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः ॥

14.86.33

गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोपि च ।
औदकानि च सत्वानि श्वापदानि वयांसि च ॥

14.86.34

जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ।
पर्वतानूपजातानि भूतानि ददृशुश्च ते ॥

14.86.35

एवं प्रमुदितं सर्वं पशुगोधनधान्यतः ।
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः ॥

14.86.36

अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम् ॥ ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् ॥

14.86.37

पूर्णे शतसहस्रे तु विप्राणां तत्रि भुञ्जताम् । दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत ।
विननादासकृच्चापि दिवसेदिवसे गते ॥

14.86.38

एवं स ववृते यज्ञो धर्मराजस्य धीमतः । अन्नस्य सुबहून्राजन्नुत्सर्गान्पर्वतोपमान् ।
दधिकुल्याशअच ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥

14.86.39

जम्बूद्वीपो हि सकलो नानजनपदायुतः ।
राजन्नदृस्यतैकस्थो राज्ञस्तस्य महामखे ॥

14.86.40

तत्र जातिसहस्राणि पुरुषाणां ततस्ततः ।
गृहीत्वा धमाजग्मुर्बहूनि भरतर्षभ ॥

14.86.41

स्रग्विणश्तापि ते सर्वे सुमुष्टमणिकुण्डलाः ।
पर्यवेषन्द्विजातींस्ताञ्शतशोऽथ सहस्रशः ॥

14.86.42

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः ।
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc