भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.83

14.83.1

स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम् ।
निवृत्तोऽभिमुखो राजन्येन वारणसाह्वयम् ॥

14.83.2

अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत् ।
यदृच्छया समापेदे पुरं राजगृहं तदा ॥

14.83.3

तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो ।
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥

14.83.4

ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली ।
मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् ॥

14.83.5

आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम् ।
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥

14.83.6

किमयं चार्यते वाजी सित्रीमध्य इव भारत ।
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥

14.83.7

अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम ।
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च ॥

14.83.8

इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः ।
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥

14.83.9

भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् ।
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥

14.83.10

इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेस्वरः ।
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥

14.83.11

ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः ।
चकार मोघांस्तान्बाणान्सयत्नान्भरतर्षभ ॥

14.83.12

स मोघं तस्य बाणौघं कृत्वा वानरकेतनः ।
शरात्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥

14.83.13

ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च ।
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥

14.83.14

संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना ।
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥

14.83.15

ततो गाण्डीवधन्वा तु मागधेन भृशाहतः ।
बभौ वसन्तसमये पलासः पुष्पितो यथा ॥

14.83.16

अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् ।
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥

14.83.17

सव्यसाची तु सन्क्रुद्धो विकृष्य बलवद्धनुः ।
हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत् ॥

14.83.18

धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह ।
हस्तावापं पताकां च ध्वजं चास्यन्यपातयत् ॥

14.83.19

स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः ।
गदामादाय कौन्तेयमभिद्रद्राव वेगवान् ॥

14.83.20

तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥

14.83.21

सा गदा शकलीभूता विशीर्णिमणिबन्धना ।
व्याली विमुच्यमानेन पपात धरणीतले ॥

14.83.22

विरथं विधनुष्कं च गदया परिवर्जितम् ।
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥

14.83.23

तत एनं विमनसं क्षत्रधर्मे व्यवस्थितम् ॥ सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥

14.83.24

पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् ।
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥

14.83.25

युधिष्ठिरस्य सन्देशो न हन्तव्या नृपा इति ।
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥

14.83.26

इति मत्वा तदाऽत्मानं प्रत्यादिष्टं स्म मागधः ।
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥

14.83.27

परिजितोस्मि भद्रं ते नाहं योद्धुमिहोत्सहे ।
यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु ॥

14.83.28

तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् ।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥

14.83.29

इत्युक्तः स तथेत्युक्त्वा पूजयमास तं हयम् ।
फल्गुनं च युधिश्रेष्ठं विदिवत्सहदेवजः ॥

14.83.30

ततो यथेष्टमगमत्पुनरेव स कौरवः ।
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥

14.83.31

तत्रतत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः ।
विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc