भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.84

14.84.1

मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः ।
दक्षिणां दिशमास्थाय चारयामास तं हयम् ॥

14.84.2

ततः स पुनरावर्त्य हयः कामचरो बली ।
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् ॥

14.84.3

शरभेणार्चितस्तत्र शिशुपालसुतेन सः ।
युद्धपूर्वं तदा तेन पूजया च महाबलः ॥

14.84.4

ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः ।
काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात् ॥

14.84.5

पूजां तत्र यथान्यायं प्रतिगृह्य धनञ्जयः ।
पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा ॥

14.84.6

तत्र चित्राङ्गदो नाम बलवानरिमर्दनः ।
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् ॥

14.84.7

तं चापि वशमानीय किरीटी पुरुषर्षभः ।
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् ॥

14.84.8

एकलव्यसुतश्चैनं युद्धेनि जगृहे तदा ।
तत्र चक्रे निषादैः स सग्रामं रोमहर्षणम् ॥

14.84.9

ततस्तमपि कौन्तेयः समरेष्वपराजितः ॥
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम् ॥

14.84.10

स तं जित्वा महाराज नैषादिं पाकशासनिः ।
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् ॥

14.84.11

तत्रापि द्रवीडैरान्ध्रै रौद्रैर्माहिषकैरपि ।
तथा कोल्लगिरेयैश्च युद्धमासीन्किरीटिनः ॥

14.84.12

तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा । तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ ।
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान् ॥

14.84.13

ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम् ।
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः ॥

14.84.14

तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः ।
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् ॥

14.84.15

ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा ।
सहितो वासुदेवेन मातुलेन किरीटिनः ॥

14.84.16

तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् । परया भारतश्रेष्ठं पूजया समवस्थितौ ।
ततस्ताभ्यामनुज्ञातो यतयौ येन हयो गतः ॥

14.84.17

ततः स पश्चिमं देशं समुद्रस्य तदा हयः ।
क्रमेणि व्यचरत्स्फीतं ततः पञ्चनदं ययौ ॥

14.84.18

तस्मादपि स कौरव्य गन्धारविषयं हयः ।
विचचार यथाकामं कौन्तेयानुगतस्तदा ॥

14.84.19

ततो गान्धारराजेन युद्धमासीत्किरीटिनः ।
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc