भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.80

14.80.1

ततो बहुतरं भीरर्विलप्य कमलेक्षणा ।
मुमोह दुःखसन्तप्ता पपात च महीतले ॥

14.80.2

प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा ।
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ॥

14.80.3

उलूपि पश्य भर्तारं शयानं नितं रणे ।
त्वत्कृते मम पुत्रेण बाणेन समितिञ्जयम् ॥

14.80.4

ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता ।
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ॥

14.80.5

किन्नु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनञ्जयः ।
क्षमस्व याच्यमाना वै जीवयस्व धनञ्जयम् ॥

14.80.6

ननु त्वमार्ये धर्मज्ञे त्रैलोक्यविदिता शुभे ।
यद्धातयित्वा पुत्रेण भर्तारं नानुशोचसि ॥

14.80.7

नाहं शोचामि तनयं हतं पन्नगनन्दिनि ।
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ॥

14.80.8

इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् ।
भर्तारमभिगम्येदमित्युवाच यशस्विनी ॥

14.80.9

उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय ।
अयमश्वो महाबाहो मयो ते परिमोक्षितः ॥

14.80.10

ननु त्वया नाम विभो धर्मराजस्य यज्ञियः ।
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ॥

14.80.11

त्वयि प्राणा ममायत्ताः कुरूणां कुरुनन्दन ।
स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि ॥

14.80.12

उलूपि साधु पश्येमं पतिं निपतितं भुवि ।
पुत्रं चेमं समुत्साद्य घातयित्वा न शोचसि ॥

14.80.13

कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः ।
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ॥

14.80.14

नापराधोऽस्ति सुभगे नराणां बहुभार्यता ।
प्रमदानां भवत्येष मा ते भूद्बुद्धिरीदृशी ॥

14.80.15

सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु ।
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ॥

14.80.16

पुत्रेम घातयित्वैनं पतिं यदि न मेऽद्य वै ।
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ॥

14.80.17

साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता ।
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ॥

14.80.18

इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी ।
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ॥

14.80.19

ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा ।
उपविष्टा भवद्दीना सोच्छ्वासं पुत्रमीक्षती ॥

14.80.20

ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः ।
मातरं तामथालोक्य रणभूमावथाब्रवीत् ॥

14.80.21

इतो दुःखतरं किन्नु यन्मे माता सुखैधिता ।
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥

14.80.22

निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् ।
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ॥

14.80.23

अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते ।
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥

14.80.24

दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते ।
यत्र नाहं न मे माता न वियुक्तौ स्वजीवितात् ॥

14.80.25

हाहा धिक्कुरुवीरस्य किरीटं काञ्चनं भुवि ।
अपविद्धं हतस्येह मया पुत्रेम पश्यत ॥

14.80.26

भोभो पश्यत मे वीरं पितरं ब्राह्मणा भुवि ।
शयानं वीरशयने मया पुत्रेण पातितम् ॥

14.80.27

ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः ।
कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः ॥

14.80.28

व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे ।
आनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥

14.80.29

दुश्चरा द्वादश समा हत्वा पितरमद्य वै ।
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥

14.80.30

शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे ।
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम ॥

14.80.31

पश्य नागोत्तमसुते भर्तारं निहतं मया ।
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥

14.80.32

सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम् ।
न शक्नोम्यात्मनाऽत्मानमहं दारयितुं शुभे ॥

14.80.33

सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि ।
भव प्रीतिमती देवि सत्येनात्मानमालभे ॥

14.80.34

इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः ।
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥

14.80.35

शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च ।
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥

14.80.36

यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः ।
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥

14.80.37

नहि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् ।
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥

14.80.38

वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते ।
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम ॥

14.80.39

एत एको महातेजाः पाण्डुपुत्रो धनञ्जयः ।
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥

14.80.40

इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः ।
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc