भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.81

14.81.1

प्रायोपविष्टे नृपतौ मणलूरेश्वरे तदा ।
पितृशोकसमाविष्टे सह मात्रा परन्तप ॥

14.81.2

उलूपी चिन्तयामास तदा सञ्जीवनं मणिम् ।
स चोपातिष्ठत तदा पन्नगानां परायणम् ॥

14.81.3

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता ।
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ॥

14.81.4

उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः ।
अजेयः पुरुषैरेष तथा देवैः सवासवैः ॥

14.81.5

मया तु मोहनी नाम मायैषा सम्प्रदर्शिता ।
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ॥

14.81.6

जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव ।
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा ॥

14.81.7

तस्मादसि मया पुत्र युद्धाय परिचोदितः ।
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो ॥

14.81.8

ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः ।
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ॥

14.81.9

अयं तु मे मणिर्दिव्यः समानीतो विशाम्पते ।
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ॥

14.81.10

एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो ।
सञ्जीवितं तदा पार्थं स त्वं द्रष्टासि पाण्डवम् ॥

14.81.11

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा ।
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ॥

14.81.12

तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः ।
चिरसुप्त हवोत्तस्थौ मृष्टलोहितलोचनः ॥

14.81.13

तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम् ।
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ॥

14.81.14

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो ।
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ॥

14.81.15

अनाहता दुन्दुभयो विनेदुर्मघनिःस्वनाः ।
साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः ॥

14.81.16

उत्थाय च महाबाहुः पर्याश्वस्तो धनञ्जयः ॥
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ॥

14.81.17

ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम् ।
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः ॥

14.81.18

किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् ।
रणाजिरममित्रघ्न यदि जानासि शंस मे ॥

14.81.19

जननी च किमर्थं ते रणभूमिमुपागता ।
नागेन्द्रदुहिता चेयमुलूपी किमिहागता ॥

14.81.20

जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् ।
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ॥

14.81.21

तमुवाच तथा पृष्टो मणलूरपतिस्तदा ।
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc