भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.75

14.75.1

प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः ।
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः ॥

14.75.2

सहयं पाण्डुपुत्रं तु विषयान्तमुपागतम् ।
युयुधे भरतश्रेष्ठ यज्ञदत्तो महीपतिः ॥

14.75.3

सोभिनिर्याय नगराद्भगदत्तसुतो नृपः ।
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ ॥

14.75.4

तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा ।
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् ॥

14.75.5

ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः ।
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् ॥

14.75.6

पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः ।
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया ॥

14.75.7

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
दोधूयता चामरेण श्वेतेन च महारथः ॥

14.75.8

ततः पार्थं समासाद्य पाण्डवानां महारथम् ।
आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे ॥

14.75.9

स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् ।
प्रेषयामास सन्क्रुद्धः श्वेताश्वं प्रति पार्थिवः ॥

14.75.10

विक्षरन्तं महामेघं परवारणवारणम् ।
शस्त्रवत्कल्पितं सङ्ख्ये विवशं युद्धदुर्मदम् ॥

14.75.11

प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः ।
तदाऽङ्कशेन विबभावुत्पतिष्यन्निवाम्बरम् ॥

14.75.12

तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः ।
भूमिष्ठो वारणगतं योधयामास भारत ॥

14.75.13

यज्ञदत्तस्ततः क्रुद्धो मुमोचाशु धनञ्जये ।
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् ॥

14.75.14

अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रभवैः शरैः ।
द्विधा त्रिधा च चिच्छेद खगमान्खगमैस्तदा ॥

14.75.15

स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः ।
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति ॥

14.75.16

ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् ।
प्रेषयामास सन्क्रुद्धो भगदत्तात्मजं प्रति ॥

14.75.17

स तैर्विद्धो महातेजा यज्ञदत्तो महामृधे ।
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः ॥

14.75.18

ततः स पुनरारुह्य वारणप्रवरं रणे ।
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति ॥

14.75.19

तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् ।
प्रेषयामास सन्क्रुद्धो ज्वलितज्वलनोपमान् ॥

14.75.20

स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ ।
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc