भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.71

14.71.1

तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः । वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः ।
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया ॥

14.71.2

ते समेत्य तथाधर्मं पाण्डवा वृष्णिभिः सह ।
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥

14.71.3

विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह ।
द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम् ॥

14.71.4

ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा ।
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥

14.71.5

ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् ।
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥

14.71.6

धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम् ।
कुन्तीं च राजशार्दूल तदा भरतसत्तम ॥

14.71.7

विदुरं यूजयित्वा च वैश्यापुत्रं समेत्य च ।
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते ॥

14.71.8

ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् ।
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥

14.71.9

तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः ।
पूजार्हं पूजयामासुः कृष्णं देवकीनन्दनम् ॥

14.71.10

ततः कतिपयाहस्य व्यासः सत्यवतीसुतः ।
आजगाम महातेजा नगरं नागसाह्वयम् ॥

14.71.11

तस्य सर्वे यथान्यायं पूजा चक्रुः कुरूद्वहाः ।
सह वृष्ण्यन्धकव्याघ्रैरुपासाञ्चक्रिरे तदा ॥

14.71.12

तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै ।
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥

14.71.13

भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् ।
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥

14.71.14

तमनुज्ञातुमिच्छामि भवता मुनिसत्तम ।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥
व्यास उवाच ।

14.71.15

अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥

14.71.16

अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् ।
तेनेष्ट्वा त्वं विपात्मा वै भविता नात्र संशयः ॥

14.71.17

इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥

14.71.18

समनुज्ञाप्य तत्सर्वं कृष्मद्वैपायनं नृपः ।
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत् ॥

14.71.19

देवकी सुप्रजा देवी त्वया पुरुषसत्तम ।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥

14.71.20

त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन ।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥

14.71.21

दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः ।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥

14.71.22

त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥
वासुदेव उवाच ।

14.71.23

त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिन्दम ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥

14.71.24

त्वं चाद्यि कुरुवीराणां धर्मेण हि विराजसे । गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः ।
यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया ॥

14.71.25

युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥

14.71.26

भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc