भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.70

14.70.1

ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् ।
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम् ॥

14.70.2

ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् ।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥

14.70.3

तदस्त्रं ज्वलितं चापि पितामहमगात्तदा ।
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर ॥

14.70.4

व्यचेष्टत च बालोसौ यथोत्साहं यताबलम् ।
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः ॥

14.70.5

ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात् ।
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् ॥

14.70.6

स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः । कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा ।
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥

14.70.7

तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम् ॥

14.70.8

कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ । सभाजयत संहृष्टो महाराज महाजनः ॥

14.70.9

उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् ।
अभ्यवादयत प्रीता सह पुत्रेण भारत ॥

14.70.10

ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः । तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः ।
पितुस्तव महाराज सत्यसन्धो जनार्दनः ॥

14.70.11

परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः ।
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥

14.70.12

सोऽवर्धत यथाकालं पिता तव जनाधिप ।
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ॥

14.70.13

मासजातस्तु ते वीर पिता भवति भारत ।
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥

14.70.14

मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च ।
कृताकृतं महद्भीममादाय पुरुषोत्तमाः ॥

14.70.15

भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि ।
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः ॥

14.70.16

नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना । भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः ॥

14.70.17

तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः ।
अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम् ॥

14.70.18

पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि ।
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः ॥

14.70.19

देवतायतनानां च पूजाः सुविविधास्तथा ।
सन्दिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥

14.70.20

राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः ।
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥

14.70.21

नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः ।
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥

14.70.22

बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः ।
तत्रतत्र विविक्तेषु समन्तादुपशोभितम् ॥

14.70.23

पताका धूयमानाश्च समन्तान्मातरिश्वना ।
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥

14.70.24

अघोषयंस्तदा चाप पुरुषा राजमार्गतः ।
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc