भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.69

14.69.1

सैवं विलप्य करुणं सोन्मादेव तपस्विनी ।
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ॥

14.69.2

तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम् ।
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतास्त्रियः ॥

14.69.3

मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम् ।
अप्रेक्षणीयमभवदार्तस्वनविनादितम् ॥

14.69.4

सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता ।
कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥

14.69.5

प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ ।
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥

14.69.6

धर्मज्ञस्य सुतः संस्त्वं न धर्ममवबुध्यसे ।
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥

14.69.7

पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम् ।
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ॥

14.69.8

याऽहं त्वया विनाऽद्येह पत्या पुत्रेण चैव ह ।
मरणं नाभिगच्छामि हतस्वस्तिरकिञ्चना ॥

14.69.9

अथवा धर्मराज्ञाऽहमनुज्ञाता महाभुजः ।
भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम् ॥

14.69.10

अथवा दुर्भरं तात यदिदं मे सहस्रधा ।
पतिपुत्रविहीनाया हृदयं न विदीर्यते ॥

14.69.11

उत्तिष्ठ पुत्र पस्येमां दुःखितां प्रपितामहीम् ।
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥

14.69.12

आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् ।
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ॥

14.69.13

उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः ।
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणः ॥

14.69.14

एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः ।
उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥

14.69.15

उत्थाय च पुनर्धैर्यात्तदा मत्स्यपतेः सुता ।
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥

14.69.16

श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः ।
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत् ॥

14.69.17

प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः ।
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयज्जगत् ॥

14.69.18

न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति ।
एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥

14.69.19

नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन ।
न च युद्धात्परावृत्तस्तथा सञ्जीवतामयम् ॥

14.69.20

यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः ।
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥

14.69.21

यथाऽहं नाभिजानामि विजये तु कदाचन ।
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥

14.69.22

यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ ।
तथा मृतः शिशुरयं जीवतादभिमन्युजः ॥

14.69.23

यथा कंसश्च केशी च धर्मेण निहतौ मया ।
तेन सत्येन बालोऽयं पुनः सञ्जीवतामिह ॥

14.69.24

इत्युक्त्वा वासुदेवोऽथ तं बालं भरतर्षभ । पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च ।
पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम् ॥

14.69.25

स्पृष्टमात्रस्तु कृष्णेन स बालो भरतर्षभ । शनैःशनैर्महाराज प्रापद्यत स चेतनाम् ॥

14.69.26

शनैःशनैर्महाराज प्रास्पन्दत सचेतनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc