भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.62

14.62.1

एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा ।
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥

14.62.2

तथैव वासुदेवश्च स्वस्त्रीयस्य महात्मनः ।
दयितस्यि पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥

14.62.3

षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम् ।
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ॥

14.62.4

आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् ।
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ॥

14.62.5

सुवर्णं चैव गाश्चैव शयनाच्छादनानि च ।
दीयमानं तदा विप्रः प्रभूतमिति चाब्रुवन् ॥

14.62.6

वासुदेवोऽथ दाशार्हो बलेदेवः ससात्यकिः । अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा ।
अतीव दुःखसन्तप्ता न शमं चोपलेभिरे ॥

14.62.7

तथैव पाण्डवा वीरा नगरे नागसह्वये ।
नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः ॥

14.62.8

सुबहूनि च राजेन्द्र दिवसानि विराटजा ।
नाभुङ्क्त पतिदुःखार्ता तदभूत्करुणं महत् ॥

14.62.9

धियमाणे तु तस्मिंस्तु गर्भे कुक्षिस्थ एव च ।
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा ॥

14.62.10

समागम्याब्रवीमान्पृथां पृथुललोचनाम् ।
उत्तरां च महातेजाःइ शोकः सन्त्यज्यतामयम् ॥

14.62.11

जनिष्यते महातेजाः पुत्रस्तव यशस्विनि । प्रभावाद्वासुदेवस्य मम व्याहरणादपि ।
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥

14.62.12

धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः ।
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥

14.62.13

पौत्रस्तव महाभागो जनिष्यति महामनाः ।
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः ॥

14.62.14

तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन ।
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ॥

14.62.15

यच्चापि वृष्णिवीरेणि कृष्णेन कुरुनन्दन ।
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ॥

14.62.16

विबुधानां गतो लोकानक्षयानात्मनिर्जितान् ।
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा ॥

14.62.17

एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः ।
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ॥

14.62.18

पिताऽपि तव धर्मेज्ञ गर्भे तस्मिन्महामते ।
अवर्धत यथाकामं शुक्लपक्षे यथा शसी ॥

14.62.19

ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम् ।
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥

14.62.20

धर्मराजोपि मेधावी श्रुत्वा व्यासस्य तद्वचः ।
वित्तोपनयने तात चकार गमने मतिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc