भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.61

14.61.1

कथयन्नेव तु तदा वासुदेवः प्रतापवान् ।
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥

14.61.2

अभिमन्योर्वधं वीरः सोत्यक्रामन्महामतिः ।
अप्रियं वसुदेवस्य माभूदिति महामनाः ॥

14.61.3

मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् ।
दुःखशोकाभिसन्तप्तो भवेदिति महामतिः ॥

14.61.4

सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे ।
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥

14.61.5

तामपश्यन्निपतितां वसुदेवः क्षितौ तदा ।
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥

14.61.6

तषः स दौहित्रवदाद्दुःखशोकसमाहतः ।
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥

14.61.7

ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः ।
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥

14.61.8

तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो । सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ।

14.61.9

दुर्भरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह ।
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥

14.61.10

किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति ।
मां चापि पुण्डरीकाक्षि चपलाक्षः प्रियो मम ॥

14.61.11

आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः ।
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥

14.61.12

स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः । बालभावेन विजयमात्मनोऽकथयत्प्रभुः ।

14.61.13

कच्चिन्न निकृतो बालो द्रोणकर्णाकृपादिभिः ।
धरण्यां निहतः शेते तन्ममाचक्ष्वि केशव ॥

14.61.14

स हि द्रोणं च भीष्मं च कर्णं च बलीनां वरम् ।
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥

14.61.15

एवंविधं बहु तदा विलपन्तं सुदुःखितम् ।
पितरं दुःखिततरं गोविन्दो वाक्यमब्रवीत् ॥

14.61.16

न तेनि विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि ।
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ॥

14.61.17

निहत्य पृथिवीपालान्सहस्रशतसङ्घशः ।
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥

14.61.18

एको ह्येकेन सततं युध्यमानो यदि प्रभो ।
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ॥

14.61.19

समाहूते च सङ्ग्रामे पार्थे संशप्तकैस्तदा ।
पर्यवार्यत सन्क्रुद्धैः स द्रोणादिभिराहवे ॥

14.61.20

ततः शत्रुवधं कृत्वा सुमहान्तं रेणे पितः ।
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥

14.61.21

नूनं च स गतः स्वर्गं जहि शोकं महामते ।
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः ॥

14.61.22

द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः ।
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥

14.61.23

स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः ।
शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः ॥

14.61.24

तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम ।
दुःखार्ताऽथो सुतं प्राप्य कुररीव ननाद ह ॥

14.61.25

द्रौपदीं च समासाद्य पर्यतप्यत दुःखिता ।
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥

14.61.26

अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः ।
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥

14.61.27

उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः ।
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह ॥

14.61.28

ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा ।
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥

14.61.29

अभिमन्योऽनुशयिनो मातुलास्ते महारथाः ।
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥

14.61.30

आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम । कस्मादेवं विलपतीं नाद्येह प्रतिभाषसे ।

14.61.31

एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम् ।
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥

14.61.32

सुभद्रे वासुदेवेन तथा सात्यकिना रणे ।
पित्रा च लालितो बालः स हतः कालधर्मणा ॥

14.61.33

ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि ।
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ॥

14.61.34

कुले महति जातासि क्षत्रियाणां महात्मनाम् ।
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे ॥

14.61.35

उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे ।
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥

14.61.36

एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह ।
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥

14.61.37

समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च ।
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥

14.61.38

ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह ।
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम् ॥

14.61.39

वैराटि नेह सन्तापस्त्वया कार्यो ह्यनिन्दिते ।
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम् ॥

14.61.40

एवमुक्त्वा ततः कुन्ती विरराम महाद्युते ।
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥

14.61.41

एवं स निधनं प्राप्तो दौहित्रस्तव मानद ।
सन्तापं त्यज दुर्धर्ष मा च शोके मनः कृथाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc