भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.57

14.57.1

स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् ।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥

14.57.2

चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् ।
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ॥

14.57.3

दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् ।
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ॥
उदङ्ग उवाच ।

14.57.4

राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् ।
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥
राजोवाच ।

14.57.5

षष्ठे काले ममाहारो विहितो द्विजसत्तम ।
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै ॥
उदङ्क उवाच ।

14.57.6

एवमस्तु महाराजि समयः क्रियतां तु मे ।
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥

14.57.7

संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम ।
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर ॥

14.57.8

ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा । दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह ।
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥

14.57.9

उपाहृत्य गुरोरर्थं त्वदायत्तमरिन्दम ।
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥

14.57.10

सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन ।
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥
सौदास उवाच ।

14.57.11

यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः ।
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे ॥
उदङ्क उवाच ।

14.57.12

प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ ।
सोहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ॥
सौदास उवाच ।

14.57.13

पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले ।
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥
उदङ्ग उवाच ।

14.57.14

अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् ।
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव ॥
वैशम्पायन उवाच ।

14.57.15

इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः ।
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ॥

14.57.16

सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता ।
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥
उदङ्क उवाच ।

14.57.17

क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर ।
स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति ॥
सौदास उवाच ।

14.57.18

तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे ।
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥
वैशम्पायन उवाच ।

14.57.19

उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ ।
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम् ॥

14.57.20

सौदासवचनं श्रुत्वा ततः सा पृथुलोचना ।
प्रत्युवाच महावुद्धिमुदङ्कं जनमेजय ॥

14.57.21

एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ ।
अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि ॥

14.57.22

इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महर्षयश्च ।
तैस्तैरुपायैरपहर्तुकामा- श्छिद्रेषु नित्यं परितर्कयन्ति ॥

14.57.23

निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृशेयुः ।
यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशाद्वा परिधर्षयेयुः ॥

14.57.24

छिद्रेष्वेतेष्विमे नित्यं ह्रियते द्विजसत्तम ।
देवराक्षसनागानामप्रमत्तेनि धार्यते ॥

14.57.25

एते दिवापि भासेते रात्रौ च द्विजसत्तम ।
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः ॥

14.57.26

एते ह्यामुच्य भगन्क्षुत्पिपासाभयं कुतः ।
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥

14.57.27

ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा ।
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके ॥

14.57.28

एवंविधे ममैते वै कुण्डले परमार्चिते ।
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc