भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 14.56

14.56.1

उदङ्कः केन तपसा संयुक्तो वै महामनाः ।
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्ववे ॥
वैशम्पायन उवाच ।

14.56.2

उदङ्को महता युक्तस्तपसा जनमेजय ।
गुरभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत् ॥

14.56.3

सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः ।
औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत ॥

14.56.4

गौतमस्य तु शिष्याणां बहूनां जनमेजय ।
उदङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥

14.56.5

स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा ।
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥

14.56.6

अथ शिष्यसहस्राणि समनुज्ञाय गौतमः ।
उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥

14.56.7

तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ।
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥

14.56.8

ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ ।
उदङ्कः काष्ठभारं च महान्तं समुपानयत् ॥

14.56.9

स तद्भाराभिभूतात्मा काष्ठभारमरिन्दम ।
निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥

14.56.10

तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा ।
ततः काष्ठैः सह तदा पपात धरणीतलम् ॥

14.56.11

ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत ।
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥

14.56.12

ततो गुरुसुता तस्य पद्मपत्रनिभानना । जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ।
पितुर्नियोगाद्भावज्ञा शिरसाऽवनता तदा ॥

14.56.13

तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः । न हि तानश्रुपातांस्तु शक्ता धारयितुं मही ।
गौतमस्त्वब्रवीद्विप्रमुदङ्कं प्रीतमानसः ॥

14.56.14

कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः ॥
उदङ्क उवाच ।

14.56.15

भवद्गतेन मनसा भवत्प्रियचिकीर्षया ।
भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥

14.56.16

जरेयं नाघबुद्धा मे नाभिज्ञातं सुखं च मे ।
शतवर्षोषितं मां हि न त्वमन्यनुजानिथाः ॥

14.56.17

भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम ।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥
गौतम उवाच ।

14.56.18

त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव ।
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ ॥

14.56.19

किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव ।
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ माचिरम् ॥
उदङ्क उवाच ।

14.56.20

गुर्वर्तं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम ।
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥
गौतम उवाच ।

14.56.21

दक्षिणापरितोषो वै गुरूणां सद्भिरुच्यते । तवि ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः ।
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ॥

14.56.22

युवा षोडशवर्षो हि यद्यद्य भविता भवान् । ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज ।
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम् ॥

14.56.23

ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् ।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥

14.56.24

किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष माम् ।
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि ॥

14.56.25

यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत् ।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥
अहल्योवाच ।

14.56.26

परितुष्टाऽस्मि ते विप्र नित्यं भक्त्या तवानघ ।
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम् ॥
वैशम्पायन उवाच ।

14.56.27

उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः ।
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम् ॥
अहल्योवाच ।

14.56.28

सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले ।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥
वैशम्पायन उवाच ।

14.56.29

स तथेति प्रतिश्रुत्य जगाम जनमेजय ।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥

14.56.30

स जगाम ततः शीघ्रमुदङ्को ब्राह्मणर्षभः ।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥

14.56.31

गौतमस्त्वब्रवीत्पत्नीमुदङ्को नात्र दृश्यते ।
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा ॥

14.56.32

ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् ।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥
अहल्योवाच ।

14.56.33

अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया ।
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ॥

14.56.34

इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः ।
उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc